________________
इत्येवं परिकर्म शर्मकरणं भव्यात्मनां पञ्चधा व्याख्यातं च समर्चितं च विनयादिज्ञानरत्नास्पदम्। अस्मै योऽय॑मनर्घमर्पयति ना पूर्ण जलाद्यष्टभिद्रव्यैर्नव्यवधूमिवाश्रयति संशूरः स मुक्तिश्रियम् ॥ ओं हीं पञ्चपकाराय परिकर्मणे महायं निर्वपामीति स्वाहा । कर्तृत्वादि विधानं भूतोद्भवनादिनिन्दनं सूत्रम्। लक्षाष्टाशीतिपदं जीवस्यार्चामि गन्धायैः।।२३।। ओं ही सूत्राय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चढाना ) श्रीमन्महापुराणं त्रिषष्ठिसत्पुरुषचारुचरितकथम्। बोधिसमाधिनिधानं पदपञ्चसहस्रमर्चेऽहम् ॥ ओं ही प्रथमानुयोगाय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चहाना ) अथ पूर्वगते भेदे प्रथमं पूर्वं भवेच्च कोटिपदम् । वस्तूत्पादादिकथं नानोत्पादं समर्हामि ॥२५॥ ओं ही उत्पादपूर्वाय जलं निर्वपामीति स्वाहा ।
( इसीप्रकार चंदनादि चढाना ) षण्णवतिलक्षसुपदं मुनिमानसरत्नकाञ्चनाभर णम् । अङ्गाग्रार्थनिरूपकमर्थ्य चाग्रायणीयमिदम्।।