________________
مد
अथ श्रुतस्कन्धविधानं लिख्यते ।
शार्दूलविक्रीडितम् ।
अर्हत्सिद्धगुरुप्रपाठक महासाधून्समाराध्य सद्वारत्युत्तमपादपद्मयुगलं मूर्ध्ना प्रणम्य त्रिधा । विद्यानन्द्यकलङ्कपूज्यचरणत्रैविद्यविद्यास्पदश्रीमत्स्वामि समन्तभद्रमवतार्यार्चे श्रुतस्कन्धकम् १ इति श्रुतस्कन्धपूजाप्रतिज्ञानाय श्रुतस्कन्धोपरि पुप्पाञ्जलिंक्षिपेत् । आर्या.
मतिमूलं लब्ध्यक्षरमुख प्रकाण्डं सदङ्गशाखाद्यम् । शब्ददलं चार्थफलं प्रशमच्छायं श्रये श्रुतस्कन्धम् || ओं ह्रीं स्कन्धस्वामिन्नत्र एहि एहि । संवौषट् । -हीं श्रुतस्कन्धस्वामिन्नत्र तिष्ठ तिष्ठ । ठः ठः । ओं नहीं श्रुतस्कन्धस्वामिन्मम सन्निहितो भव भव वषट् ॥ . ( इति आह्वाननस्थापनसन्निघापनम् । )
अथ साधुचरणकथकं सहस्रमष्टादशाहतं सुदयम् । सुपदामाचाराङ्गं सदङ्गमर्चाम्युदकमुख्यैः ॥ ३ ॥ ओं =हीं आचाराङ्गाय जलं निर्वपामीति स्वाहा | ओं -हीं आचाराङ्गाय गन्धं निर्वपामीति स्वाहा ।