________________
रिका लेख
कोर(जिला धारवाड़) संस्कृत ।
[शक सं०७८२-८६० ई.] श्रियः प्रियस्संगतविश्वरूपस्सुदर्शनच्छिन्नपरावलेपः । दिश्यादनन्तः प्रणतामरेन्द्रः श्रियं ममायः परमां जिनेन्द्रः ॥१॥ अनन्तभोगस्थितिरत्र पातु वः प्रतापशीलप्रभवोदयाचलः । सु-राष्ट्रकूटोर्जितवंशपूर्वजस्स वीर-नारायण एव यो विभुः ॥ २ ॥ तदीयभूपायतयादवान्वये क्रमेण वा वित्र रत्नसश्चयः । बभूव गोविन्दमहीपतिर्भुवः प्रसाधनो पृच्छकराज-नन्दनः ॥ ३॥ इन्द्रावनीपालसुतेन धारिणी प्रसारिता येन पृथु-प्रभाविना । महौजसा वैरितमो निराकृतं प्रतापशीलेन स कर्कर प्रभुः ॥ ४ ॥ ततोऽभवदन्तिघटाभिमईनो हिमाचला र्जित-सेतु-सीमतः । ग्वलीकृतोद्वृत्तमहीपमण्डलः कुलाग्रणीः यो भुवि दन्तिदुर्ग-राट् ॥ ५ ॥ खयम्बरीभूतरणाङ्गणे ततस्स निर्व्यपेक्षं शुभतुङ्गवल्लमः । चकर्ष चालुक्यकुलश्रियं बलाद्विलोल-पालिध्वज-माल-भारिणीं ॥ ६ ॥ जयोच्चसिंहासनचामरोजितस्सितातपत्रो प्रतिपक्ष राज्य(ज)हा । अकालवर्षोर्जितभूपनामको बभूव राजर्षिरशेषपुण्यतः ॥ ७ ॥ ततः प्रभूतवर्षोऽभूद्धारावर्षसुतश्शरैः । धारावर्षायितं येन संग्रामभुवि भूभुजा ॥ ८॥ तस्य सुतः
यज्जन्मकाले देवेन्द्ररादिष्टं वृषभो भुवः । भोक्तेति हिमवत्सेतु-पर्यन्ताम्बुधिमेखलाम् ॥ ९॥ ततः प्रभूतवर्षस्सन् स्वयम्पूर्णमनोरथः । जगत्तुङ्गसुमेरुर्वा भूमृतामुपरि स्थितः ॥ १०॥