________________
जैन-शिलालेख संग्रह लामुत्पादयता प्रहतपटहढक्कागम्भीरध्वानेन घनाघनगर्जनानुकारिणा अस्याचितो विनोदनिर्गमः (१) खकीयां साञ्चलता () परनृपचेतोवृत्तिषु दातुमिवोचराविलोलप्रकटितराज्यचिहः (?) तुरङ्गमखरखुरोत्थितपांशुपटलमसृणितजलदसंचयानेकमत्तद्विपकरटतटगलितदानधाराप्रतानप्रशमितमहीपरागः।
यस्य श्री चपलोदया खुरतरङ्गालीसमास्फालना
निर्मिन्नद्विपयानपात्रगतयो ये मंचलञ्चेतसः । (?) तस्मिन्नेव समेत्य सारविभवं संत्यज्य राज्यं रणे
भग्ना मोहवशात् खयं खलु दिशामन्तं भजन्तेऽरयः ॥ इदं कियद्भूतलमत्र सम्यक् स्थातुं महत्संकटमित्युदनम् ।
वस्यावकाशं न करोति यस्य यशो दिशां भित्तिविमेदनानि ।। अनवरतदानधारावर्षागमेन तृप्तजनतायाः धारावर्ष इति जगति विख्यातः सर्वलोकवल्लभतया वल्लभ इति । तस्यात्मजो निजभुजबलसमानीतपरनृपलक्ष्मीकरवृतधवलातपत्रनालप्रतिकूलरिपुकुलचरणनिबद्धखलखलायमानधवलशृङ्खलारवबधिरीकृतपर्यन्तजनो निरुपमगुणगणाकर्णनसमाह्लादितमनसा साधुजनेन सदा संगीयमानशशिविशदयशोराशिराशावष्टब्धजनमनःपरिकल्पनत्रिगुणीकृतस्वकीयानुष्ठानो निष्ठितकर्तव्यः प्रभूतवर्षश्रीपृथ्वीवल्लभराजाधिराजपरमेश्वरस्य प्रवर्धमानश्रीराज्यविजयसंवत्सरेषु वदत्सु । चारुचालुक्यान्वयगगनतलहरिणलाञ्छनायमानश्रीबलवर्मनरेन्द्रस्य सूनुः खविक्रमावजितसकलरिपुनृपशिरःशेखरार्चितचरणयुगलो यशोवर्मनामधेयो राजा व्यराजत । तस्य पुत्रः 'सुपुत्रः कुलदीपक' इति पुराणवचनमवितथमिह कुर्वन्नतितरां धीराजमानो
१ 'वहत्सु' पाठ मालूम पड़ता है।