________________
मन्नेका लेख यस्मिन् सर्व-गुणाश्रये क्षितिपतौ श्री-राष्ट्रकूटान्वयो जाते यादव-वंशवन्मधुरिपावासीद् अलङ्यः परैः । दृष्ट्वा सावधयः कृतास्सु-सदृशाः दानेन येनोद्धताः युक्ताहार-विभूषिताः स्फुटमिति प्रत्यर्थिनोऽप्यर्थिनः ।। यस्याकारमनानुषं त्रिभुवन-व्यापत्ति-रक्षोचितम् कृष्णस्येव निरीक्ष्य यच्छति पदं यद्याधिपत्य भुवः ।
आस्तां तात तवेयमप्रतिहता दत्ता त्वया कण्ठिका किन्वा व मया धृतेति पितरं युक्तं स तत्राभ्यधात् ।। तस्मिन् स्वर्ग-विभूषणाय जनने याते यशश्शेषताम् एकीभूय समुद्यतान् वसुमती-संहारमाधित्सया । वि-च्छायान् सहसा व्यधत्त नृपतीनेकोऽपि यो द्वादश . ख्यातानप्यधिक प्रताप-विसरैस्संवर्त ( ३ अ) कोल्कानिव ।। येनात्यन्त-दयालुनोग्र-निगल-वेशादपास्यानतम् स्वं देशं गमितोऽपि दर्प-विसरद् यः प्रा [...] कूल्ये स्थितः । लीला-भ्र-कुटिले ललाट-फलके यावच्च नालक्ष्यते विक्षेपेण विजिल्य तावदचिरादाबद्ध-गङ्गः पुनः ॥ सन्धायासि शिलीमुखान् ख-समयात् बाणासनस्योपरि प्राप्तं वर्द्धित-बन्धु-जीव-विभवं पद्माभिवृद्ध्यान्वितम् । सर्व क्षेत्रमुदीक्ष्य यं शरद्-ऋतुं पर्जन्यवद् गूर्जरो नष्टः कापि भयात् तथापि समयं स्वप्मेऽप्यपश्यन् ॥ यत्पादानति-मात्र... क-शरणानालोक्य लक्ष्मी-धिया दूरान् मालव-नायको नय-परो यत्रातिबद्धाञ्जलिः । यो विद्वान् बलिना सहाल्प-बलवान् स्पर्द्धा न धत्ते पराम् नीतेस्सूतिरसौ यदात्म-परयोराधिक्य-सम्वेदनम् ॥