________________
१२६
जैन - शिलालेख संग्रह
ज्येष्ठोल्लंघन - जातयाप्यमलया लक्ष्म्या समेतोऽपि सन् योऽभून्निर्म्मल-मण्डल-स्थिति-युतो दोषाकरो न कचित् । कर्णाः कृत-दान-सन्तति- (२ अ) भृतो यस्यान्य-दानाधिकम् दानं वीक्ष्य सुजिता इव दिशां प्रान्ते स्थिता दिग्गजाः ॥ अन्येन जातु विजितं गुरु-शक्ति-सारं
आक्रान्त भूतलमनन्य- समान मानम् । येनेह बद्धमवलोक्य चिराय गङ्गान् दूरे स्व-निग्रह - भित्र कलिः प्रयातः ॥ एकत्रात्म- बलेन वारिनिधिनाप्यन्यत्र रुव्वा घनान् निष्कृष्टासि - भटोद्धतेन विहरद्- प्राहातिभीमेन च । मातङ्गान् मद - वारिनिर्झर मुचः प्राप्यानतात् पल्लवात् तचित्रं मद- लेशमप्यनुदिनं यस्स्पृष्टवान् न क्वचित् ॥ हेला स्वीकृत गौड - राज्य-कमलान् चान्तःप्रविश्याचिरादू उन्मार्गे मरु-मध्यम-प्रतिबलैयों वत्सराजं बलैः । गौडीयं शरदिन्दु-पाद-धवल-च्छत्र-द्वयं केवलम् तस्मादाहृत-तद्-यशोऽपि ककुभां प्रान्ते स्थितं तत्-क्षणात् ॥ लब्ध-प्रतिष्ठमचिराय कलिं सुदूरम् उत्सा शुद्ध चरितैर्धरणी - नलस्य ।
कृत्वा पुनः कृत-युग - श्रियमप्यशेपम् चित्रं कथं निरुपमः कलि-बल्लभोऽभूत् ॥
प्राभू -( २ ब ) द् धर्म-परात् ततो निरुपमादिन्दुर्व्यथा बारिधेः शुद्धात्मा परमेश्वरोन्नत - शिरस्- संसक्त-पादस्तथा । पद्मानन्दकरः प्रताप- सहितो नित्योदयस्सोन्नतेः पूर्वादेरिव भानुमानभिमतो गोविन्दराजः सताम् ॥