________________
हुम्मचके लेख सन्तापयत्येव तदन्तरङ्गम् श्रीमानसावोडग-मण्डलेशः॥' कुमार चूडामणिरेष भाति श्री ब्रह्म-देवो गुणवाननिन्धः । श्री-जैन-पादाम्बुज-युग्म-भृङ्गः यशोऽभिवेष्टयाखिळ-भूमि-मागः॥ श्रीमद्-राक्षस-गण-मण्डलपतिः श्री-गण-नारायणः दोर-दण्ड-द्वय-वीर्य्य-भीषित-रिपुः श्री गण पेनितिः । स्याद् यम्या जनको मतो निरुपमो विख्यात कीति-ध्वजः श्रीमच्चट्टल देवि अत्र भुवने ख्याता परीवृत्यते ॥ दृष्टे यन्न महोत्सवैक-निळ्ये पश्यजानानां मनः पुण्यं सम्चिनुते-तरामतितरामहो हत्यप्यलम् । पूजाभिः पृथुभिः पुन: प्रतिदिनं वाभाति योऽयं सदा श्रीमत् पञ्च-जिनालयो निरुपमो भक्त्या यया निम्मितः ।। संसाराम्भोधिमध्यान् निरुपम-गुण-सद्-रत्न-मेदाधिवासम् निर्वाण-द्वीपमाप्तुं प्रतियत-मनसां पण्डितानां मुनीनां । कृत्वा श्रीमजिनेन्द्राळय-विलसित-नावं व्यधाद् यक्षिणामन्मानस्तन्भो सत्-कूबरमपि च धनान्यत्थि-साय दत्वा ।। आहाराभय-भैषज्य-शासा-दानेरनिरन्तरैः । श्रीमञ्चट्टल-देवीयं बाभाति भुवन-स्तुता ॥ रोहिणी चेळिनी सीता देवता च प्रभावती । श्रूयन्ते बातया सेयं दृश्यन्ते विमलैर्गुणैः ॥ . श्रीमद्रविळ-संघेऽस्मिन् नन्दिसंघेऽस्त्यरुङ्गळः । अन्बयो भाति योऽशेष-शास्त्र-वाराशि-पारगैः॥ यद्-वाग्-बन्नाभिघातेन प्रवादि-मद-भूभृतः । सञ्चूर्णिणतास्तु भाति स्म हेमसेनो महामुनिः।।