________________
२००
जैनप्रन्थ-प्रशस्तिसंग्रह श्रीमत्परमपरमेष्ठिश्रीनेमिनाथश्रीपादपनाराधनबलेन आदीभवनांकुशश्रीविशालकीर्तिपंडितदेव वैयावृत्यतः श्रीमच्छिलाहारकुलकमलमार्तण्डतेजः पुलराजाधिराजपरमेश्वरपरमभट्टारकपश्चिमचक्रवर्ति श्रीवीरभोजदेव विजयराज्ये शकवकसहस्र कशतसप्तविंशति ११२७ तमक्रोधनसम्यत्सरे स्वस्तिसमस्तानवद्याविधाचक्रवर्ति श्रीपूज्यपादानुरक्तचेतसा श्रीमत्सोमदेवमुनीश्वरेण विरचितेयं शब्दार्णवचन्द्रिकानाम वृत्तिरिति । इतिश्रीपूज्यपादकृत जैनेन्द्रमहान्याकरणं सम्पूर्णम् ॥
(श्रीजैनमन्दिर पंसारीटोला, इटावा प्रति) १३४. द्रव्यसंग्रहात्ति ( पं० प्रभाचन्द्र ) आदिभागःनत्वा जिनार्कमपहस्तितसर्वदोष, लोकत्रयाधिपतिसंस्तुतपादपद्मम् । ज्ञान-प्रभा-प्रकटिताखिलवस्तुसार्थ, षडद्रव्यनिर्णयमहं प्रकटं प्रवक्ष्ये ॥१॥
अहं प्रवक्थे कथयिष्ये कं १ षड्न्यनिर्णय षण्णां तम्या जीवादीनां निर्णयं निश्चयं कथं प्रवक्ष्ये प्रकटं यथा भवति किं कृत्वा ? पूर्व नत्वा नमस्कृय कं? जिनाकं जिनादित्य कथंभूतं ? अपहस्तितसर्वदोषं अपहस्तिता निराकृताः सर्वदोषाःमृषादयो येन म अपहस्तितसर्वदोषस्तं श्रादित्येत्यादि अपहस्तिता निराकृता सर्वदोषा रात्रि. । पुन. कथंभूतं ? लोकत्रयाधिपतिसंस्तुतपादप लोकत्रयस्याधिपतयः स्वामिनो धरणेन्द्रनरेन्द्रसुरेन्द्रास्तैवदिती पादावेव पनौ यस्य स लोकनयाधिपतिभिः ब्रह्माविष्णुमहेश्वरैरेभिः संस्तुत पादप इति परसमयवचनं । पुनः कथंभूतं ? ज्ञानप्रभाप्रकटिताखिलवस्तुमार्थ ज्ञानं केवलज्ञानं तदेव प्रभा तया प्रकटिताः प्रकाशिताखिलवस्तूनां निखिलपदार्थानां सार्थः समूहो येन स ज्ञानप्रभाप्रकटिताखिलवस्तुसार्थस्तं मादित्येनापि प्रभाखोचनगोचराः सर्वेपदार्थाः प्रकटिता इति क्रियाकारकसम्बन्धः । प्रथेष्टदेवताविशेष नमस्कृत्य महामुनिसैद्धान्तिक-श्रीनेमिचन्द्र प्रतिपादिताना पवम्याणां स्वल्पयोधप्रबोधार्थ संक्षेपार्थतया विवरणं करिष्ये।