________________
जैनग्रन्थ-प्रशस्तिसंग्रह
अन्तभाग:
श्रीमत्कुम्भमहाविशुद्धनगरे जैनास्पदैर्वासिने, शुद्धश्रीद्धमहाजनप्रभृतिभिन्नित्यं च सद्भावतः । तारासिंह इतिह्यभून्नृपशिरोरत्नप्रभाचुम्बित
पादाम्भोज-मनोहर-धु तिवरः शबृत्तमांगेन्नत. ॥५॥ श्रीमदबृहद्गौर्जरवंशभूषणः प्रतापसंतापित-शत्रुशासनः । ताराहरिः क्षत्रियवृत्तिचन्द्रमा विशुद्धमार्गाधिपतिर्जयत्यसो ॥५२॥ तत्सत्पदाम्बुजविभूषणमित्रमूर्तिविऽवषमेकपरिशोषणमित्रमूर्तिः । अन्यायमार्गकुमुद्य ति-मित्रमूर्तिः पुत्रो बभूव बलवान् रणमल्ल एष ॥५०॥ दिल्ली-नृपेशाधिपति-प्रमान्यः शौर्यादिभिः ख्यातगुणैर्गरीयान् । प? तदीये जिनशुद्धमार्गी सामन्तसिंहो नृपराजराजः ॥५४॥ दिगम्बराचार्यगुरोः प्रसादान्मलक्षयात्प्राप्तजिनेन्द्रधर्मः । अपारभद्दावलि-वंदितः सत्सामन्तसिंहः नृपतिः सुजीयात् ॥१५॥ तत्पट-पौरुष-महोदय-पद्मसिहो विद्वेषपद्मनिकरोदयपद्मसिंह। तत्सूनूरद्ध त महोदयपद्मसिंहो जातः समुन्नतमतियु तिपद्मसिहः ॥५६॥ शिवानतानन्दमनोहरांगः शिवाभिरामैरनुशासितात्मा। शिखाभिरामद्य तिवारिचाहः शिवाभिरामो द्वितियाभिधान. ॥१७॥ अभुक्तभोगद्य तिराजराजो गृहस्थितब्रह्मपदाधिराजः । विद्याविनो [दो] धमराजिराजः कालं स निन्ये जिनराजभक्त्या ॥५॥ वीणेति शीलादिगुणोज्वलांगा निर्वाणवंशोदधि-पद्मजाभूत् । अर्हत्पदद्वन्दगताशया या सा वामला पद्महरेः पतीहा ॥१६॥ तस्योपदेशाग्रहतो मयेदं चरित्रमुक्त जिनचन्द्रराज्ञ. । शिवाभिरामेण विशुद्धसिद्धय नवाभिमानेन कवित्वयुक्त ॥६०॥ यावरच मञ्च,न्द्रः-दिवाकरौ द्वौ यावत्सुरादिश्च जिनवृष(बत)श्च, भ(या)वत्सतां वृत्तिरतिप्रशस्ता तावत्समानन्दतु एष ग्रन्थः ॥६॥