________________
१३७
चन्द्रप्रभपुराण-प्रशस्ति अनेकान्तमतिः कुर्यादनन्यगुणगौरवः (वं)। सिद्धयर्थदायिनी शांतिरसावतुलविक्रमी ॥४॥ सोऽस्तु श्रीमन्महावीरः मतां सिद्धौ जगत्त्रये । यज्ञामश्रुतिमात्रेण भजन्ति भविनः सुखम् ॥५॥ विश्रीसमन्वितान् शेषान् पुराणार्थ-प्रकाशकान । जिनाधिपानहं नौमि तत्सुखाप्त्यै सुखाकरान् ॥६॥ जिनेन्द्रवक्रजां वन्दे सप्तभगांगवादिनीम् । केवलज्ञान-जननीं तु स्तुत्यां सम्यक्सरस्वतीम ॥७॥ योग्यतां यांति यास्यन्ति सत्पदं पुरुषोत्तमाः। यामाराध्य समाराध्यामाराध्यैस्तां स्तुवेऽनघाम् ॥८॥ रत्नत्रयधरान्वन्दे बाह्याभ्यन्तरभेदतः । सर्वसंगविनिमुक्रान् गुरून्सद्गुणगौरवान् ॥६॥ विष्ण्वादिभद्रबाहूतानां पादस्मरणं सदा । करोमि सिद्धये कृत्स्नच तकेवलिनामहं ॥१०॥ श्रीमत्समन्तभद्रस्य जयन्ति वचनान्यलं । यत्समुयोतिते मार्गे न स्खलन्ति महाधियः ॥११॥ अकलंकगुरुः केन भुवने न प्रणम्यते । यद्वाक्शरैश्च बौद्धानां धुद्धिधव्यतां गता ॥१२॥ पुराणसंततिर्यस्य स्वगते प्रस्फुटं गता । स्मरामि जिनसेनस्यांधी यौ सद्भिः प्रवंदितौ ॥१३॥ पद्मनन्यादयः सर्वे पूज्ये ज्याः सत्सूरयः सुरैः । संस्तुतास्ते विसंवत्र मतिसर्वार्थभासिनीम् ॥१४॥ स्वसिद्धपर्य नमस्कृत्य देव-श्रुत-मुनीश्वरान् । वच्मि चन्द्रप्रमस्येदं पुराणं च पुलाकतः ॥१५॥ गुणभद्रादिभिज्यैर्भदन्तैर्यन्निरूपितम् । तत्करोमि विशनोऽहं तत्पादाम्बुजसेवनात् ॥१६॥