________________
जैनग्रन्थ-प्रशस्तिसंग्रह रत्यामाचरणे शुचौ रतिपतियेंनोत्पतंगी कृतः । की• शारदनीरदेन्दुसितया श्वेतीकृताशामुखः ॥१३॥ भवभयपरिभावी भव्यराजीवबन्धुमैतमितहितवादी बुद्धिवादावनन्दी । गुणिगणधरकीर्तिः कोविदानन्दहेतुः ।
समजनि जनपूज्यो वन्दिवृन्दाभिवंद्यः ॥१४॥ पासनभव्यशुभसस्यविभूतिकीं सारार्थदेशनपरां चिरमेघमालाम् । सान्तरः ससमयो निखिलाशपूरस्तस्तार यहुदिह तद्वदिमां सुटीकाम् ॥१५॥
तथ्यात्माचर्थसम्वादाध्यात्मामृततरङ्गिणीम् । सोमदेवध्यानविधौ गणधरकीर्तिय॑धात् ॥१६॥ एकादशशताकीर्णे नवासीत्युत्तरे परे । सम्वत्सरे शुभे योगे पुप्यनक्षत्रसंज्ञके ॥१७॥ चैत्रमासे सिते पक्षेऽथ पञ्चम्यां रवौ दिने । सिद्धा सिद्धिप्रदा टीका गणभृत्कीर्तिविपश्चितः ॥१८॥ निरिंशतर्जितारातिविजयश्रीविराजनि ।
जयसिंहदेवसौराज्ये सजनानन्ददायिनि ॥१६॥ यावज्जैनं शासनं शासनानां, जीवादीनां स्यादनेकारमकानाम् । यावयौौगोपतिर्याबदाशाः स्थेयाट्टीका तावदेषा जगत्याम् ॥२०॥
१३२. चन्द्रप्रभपुराव्य (पं० शिवाभिराम) आदिभाग:
श्रीमते परमज्ञान साम्राज्य-पदभागिने । नमोऽहते महाभत्रैऽनंतसंसृतिमीमुषे ॥१॥ अनादिनिधनानन्तज्ञानानंदैकमूर्तये । जगतां स्वामिने कत्रे नमो तं कुलकृत्तुजे ॥२॥ समीशं स्वामिनं वन्दे सुरतारागणावृतं । स्ववाकिरणसन्दोह-सुनन्दित-जगत्त्रयम् ॥३॥