________________
अध्यात्मतरङ्गिणी प्रशस्ति त्रिदशवसतितुल्यो गुर्जरावाभिधानो धनकनकसमृद्धो देशनाथोऽस्ति देशः । असुरनरसुरामाशोभिभोगाभिरामो परदिगवनिनारीवक्त्रमाले ललामः ॥५॥
शश्वच्छ्रीशुभतुनदेववसतिः संपूर्णपण्यापणाशौण्डीयोटवीरधीरवितता श्रीमान्यखेटोपमा । चंचकांचनकुम्भकर्णविसरैजैनालयजिता,
लंका वास्ति विलासशालनिलयामंदोदरीशोभिता ॥६॥ वरवटवटपल्ली तत्र विख्यातनामा वरविबुधसुधामा देवयासोरुधामा । शुभसुरभिसुरम्भादेवरम्भाभिरामा सुरवसतिरिवोच्चैरप्सरोभासमाना ॥७॥
स्फूर्जद्बोधगणेभवप्रतिपतिर्वाचंयमः संयमी, जज्ञे जन्मवतां सुपोतममलं यो जन्मयादोविभोः । जन्यो यो विजयी मनोजनृपते जिष्णोजगजन्मिनाम्,
श्रीमत्सागरनंदिनामविदितः सिद्धांतवार्धेर्विधुः ॥८॥ स्याद्वादमात्मकतपोवनि गललामो भव्यातिसस्यपरिवद्धननीरदाभः । कामोरुभूरुहविकर्तनसंकुठारस्तस्माद्विलोभहननोऽजनि स्वर्णनन्दी ॥॥
तस्माद.गौतममाम्रगो गुणगुणैर्गम्यो गुणिग्रामणीगीतार्थो गुरुसंगनागगरुड़ो गीर्वाणगीनेंचरः। गुप्तिग्रामसमग्रतापरिगतः प्रोग्रग्रहोद गारको, प्रन्थग्रंथिविभेदको गुरुगमः श्रीपद्मनन्दी मुनिः ॥१०॥ प्राचार्योंचितचातुरीचयचितश्चारित्र चञ्चुःशुचिश्वा-संचयचित्रचित्ररचनासंचेतनेनोच्चकैः । चित्तानन्दचमत्कृतिप्रविचरन्प्राञ्चत्प्रचेतोमता,
प्राभूश्चारुविचारणैकनिपुणः श्रीपुष्पदन्तस्ततः ॥११॥ समभवदिहचातश्चन्द्रवत्कायकान्तिस्तदनविहितबोधो भव्यसकैरवाणाम् । मुनिकुवलयचन्द्रः कौशिकानन्दकारी,निहिततिमिरराशिश्चारुचारित्ररोचिः॥१२
तस्मात्तीवमहातपस्तपनकृत्तेजः प्रतप्तान्तरम् । कम्र्मोत्तुङ्गताडगतारलहरीतोयं तरां शोषितम् ।