________________
जैनग्रन्थ-प्रशस्तिसंग्रह कुन्देन्दुकांतिहरहासविलासशुभ्र, कांतं यशः प्रतिविधातुमनल्पकल्पम् । कम्र स्वरैरवितथार्थविचारसारा, साक्षान्मया विरचिता शिवसौख्यदेयम् ॥१०॥
मात्सर्यमुत्सृज्य विचार्य चाळ सत्तत्वसंदेशनजं गुणोधम् । ग्राह्यागुणगुणकक्षदः सन्मोक्षमार्गाधिगमाय टीका ॥११ जिनं प्रणम्य प्रणतं सुरेशैः कृते कृतार्थे मुनिसोमदेवैः।
मया स्वभक्त्या क्रियते विचित्रं निबंधनं ध्यानविधौ सुबोधम् ॥१२॥ निखिलसुरासुरसेवावसरमायातसुरसम्बोधनावधारितधर्मावसरण (णं) अमरोरगनरेन्द्रश्रीकल्पानोकहारामोल्लासामृताम्भोधरायमाण (f) महापरमपञ्चकल्याणकोकनदकाननोत्पत्तिसार (२) भवाम्भोधिसमुत्तरणकसेतुबन्धं सम्यक्त्वरत्नं गीर्वाणगणा [न] नुग्राहयता, अष्टादशसागरोपमकोटीकोटीं वा यावसष्टत्वाइयादमत्यागादिस्वभावस्य धर्मस्य भरते धर्मकर्माणि प्रवर्तयन् [तु] भगवानिति जाताकूतपरिपाकेन समाधि (वि) भविष्यदासम्ममृत्यु वैराग्ययोग्या(गा)य नीलंयसां प्रहितां गीर्वाणेश्वरेण, तां च शृङ्गारादिरसाभिनयदक्षा हाव-भाव-विभ्रमविलासवती शान्तरसानन्तरमेव नश्वरस्वभावां विभाव्यात्यनोऽनश्वरस्वभावतां चिकीर्षुरादिदेव इत्थं योगमुद्रा मुन्मुद्रितवानित्याहअन्तभाग:श्रीसोमदेवमुनिनोदितयोगमार्गो व्याख्यात एव हि मया स्वमतेर्बलेन । संशोध्य शुद्धधिषणैह्रदये निधेयो योगीश्वरोत्वमचिराय समाप्सुकामैः ॥१॥
[श्री] सोमसेनप्रतिबोधनार्थ धर्माभिधानोश्चयशःस्थिरार्थाः । गूढार्थसंदेहहरा प्रशस्ता टीका कृताऽध्यात्मतरङ्गिणीयम् ॥२॥ जिनेशसिद्धाः शिवभावमावा सुसूरयो देशकसाधुनाथाः । अनाथनाथा मथितोरुदोषा भवंतु ते शाश्वतशर्मदा नः ॥३॥
चंचत्चंद्रमरीचिवीचिरुचिरे यचालोचिश्चये, नम्राङ्गः सुरनायकैः सुररुचे देवाब्धिमध्यैरिव । शुक्लध्यानसितासिशासितमहाकर्मारिकसोदयोदेयात ऽभव संभवां शुभतमा चंद्रप्रभः संपदम् ॥४॥