________________
१८६
जैनग्रन्थ-प्रशस्तिसंग्रह येनानुचरिता(तं ) बाल्याद् ब्रमव्रतमखण्डितम् । स्वयम्बरविधानेन चित्रमूढा मरस्वती ॥२४॥ यो नातिमुन्दराकारो न चातिचतुरो मुनिः । तथाग्यनन्यशरणा यं सरस्वत्युपाचरत् ।।२५।। धी. शमो विनयश्चेति यस्य नैसर्गिकाः गुणाः । सूरीनाराधयति स्म गुणैराराध्यते न कः ॥२६॥ यः कृशोऽपि शरीरेण न कृशोऽभूत्तपोगुणैः । न कृशत्वं हि शारीरं गुणरेव कृशः कृशः ॥२७॥ ये ( यो ) नाग्रहीत्कापलिकानाऽप्यचितयदंजसा । तथाग्यध्यात्मविद्याब्धेः पर पारमशिश्रियत् ॥२८॥ जानाराधनया यम्य गतः कालो निरन्तरम् । नतो ज्ञानमय पिण्डं यमाहुस्तत्त्वदर्शिनः ॥२६॥ तनेदमनतिप्रोट-मतिना गुरुशासनात् । लिखितं विशदेरेभिरक्षरः पुण्यशासनम् ॥३०॥ गुरुणाधे ऽग्रिमे भृरिवक्तव्ये संप्रकाशिते । तनिरीक्ष्याल्प-वक्तव्यः पश्चाधस्तेन पूरितः ॥३१॥ प्रायः प्राकृतभारत्या कचित्सस्कृतमिश्रया । मणि-प्रवाल-न्यायेन प्रोक्तोऽयं अन्यविस्तरः ॥३२॥ ग्रन्थच्छायेति यत्किचिटत्युक्तमिह पद्धती। क्षन्तुमहंथ तत्पूज्या दोष ह्यों न पश्यति ॥३३|| गाथासूत्राणि सूत्राणि चूर्णिमत्र तु वार्तिकम् । टीका श्रीवीरसेनीया शेषाः पद्धतिपंजिकाः ॥३४॥ ने सूत्रसूत्र-तवृत्ति-विकृती वृत्ति-पद्धती। कृत्स्नाकृत्स्नश्रुतव्याख्ये ते टीकापंजिके स्मृते ||३५|| अत्युक्तं किमिहास्त्यनुक्तमथवा कि वा दुरुक्तादिक सर्वज्ञोदित-सूनृत-प्रवचने प्रस्पष्टमष्टाक्षरे।