________________
जयधवला-प्रशस्ति
१८५
जयत्यजय्यमाहात्म्यं विशासित-कुशासन । शासनं जैनमुद्भासि मुक्तिलक्ष्म्यैक-शासनं ॥११॥ भूयादावीरसेनस्य वीरसेनस्य शासनं । शासनं वीरसेनस्य वीरसेनकुशेशयं ॥१२॥ श्रामीदासीददासन-भव्यसत्व-कुमुदतीम । मुदती कर्तुमीशो यः शशाङ्क इव पुष्कलः ॥१३॥ श्रीवीरसेन इत्यात्त-भट्रारक-पृथुप्रथः । पारदृष्याधिविद्याना साक्षादिव स केवली ॥१४॥ प्रीणित-प्राणि-संपत्तिराक्रान्ताऽशेषगोचरा । भारती भारतीवाज्ञा षटलण्डे यस्य नाऽस्खलत् ॥१५॥ यस्य नैसर्गिकी प्रज्ञां दृष्टा सर्वाथगामिनीम् । जाताः सर्वशसद्भावे निरारेका मनीषिणः ॥१६॥ यं प्राहुः प्रस्फुरद्वोध-दीधिति-प्रसरोदयम् । श्रुतकेवलिन प्राज्ञाः प्रज्ञाश्रमणसत्तमम् ||१७|| प्रसिद्ध-सिद्ध-मिद्धान्त-वार्धिवाझुत-शुद्धधीः । सार्द्ध प्रत्येकबुद्धयः स्पर्धते धीद्धबुद्धिभिः ॥१८॥ पुस्तकाना चिरन्ताना गुरुत्वमिह कुर्वता । येनातिशयिताः पूर्वे सर्वे पुस्तक-शिष्यकाः ॥१६॥ यस्तपोदीप्तकिरणेभव्याम्भोजानि बोधयन् । व्यद्योतिष्ट मुनीनेनः पञ्चस्तूपान्वयाम्बरे ॥२०॥ प्रशिष्यश्चन्द्रसेनस्य यः शिष्योऽप्यार्यनन्दिनाम् । कुलं गणं च सन्तान स्वगुणेरुदजिज्वलत् ||२१|| तस्य शिष्योऽभवच्छीमान् जिनसेनः समिद्धधीः । अविद्धावपि यत्करणी विद्धौ ज्ञान-शलाकया ॥२२॥ यस्मिन्नासन्नभव्यत्वान्मुक्तिलक्ष्मीः समुत्सुका । स्वयंवरीतुकामेव श्रौति मालामयूयुजत् ॥२३॥