________________
जेनग्रन्थ-प्रशस्तिसंग्रह
साणेण झाणसिद्धी झाणादो सन्व-कम्म-णिकरणं । पिजर-फल च मोक्खो भागन्भासं तदो कुजा ॥३॥ इय भावियूण सम्मं सुदणाणाराहणा मये एसा । चिरभाविदा भयवदी पसियउ सा मज्झमचिरेण ॥४॥ उजोहदा य सम्म उजमिदा साहिदा य णित्थिरणा। णिवृदा य भयवदी पसियउ सुअदेवया मझं ||५|| इति श्रीवीरसेनीया टीकासूत्रार्थ-दर्शिनी । वाटग्रामपुरे श्रीमद्गूर्जरार्यानुपालिते ॥१॥ फाल्गुणे मासि पूर्वान्हे दशम्या शुक्लपक्षके। प्रवर्धमान-पूजोरु-नन्दीश्वर-महोत्सवे ॥२॥ अमोघवराजेन्द्र-प्राज्यराज्यगुणोदया। निष्ठिता प्रचयं यायादाकल्पान्तमनल्पिका ॥३॥ पष्ठिरेव सहस्राणि(६००००)मन्थाना परिमाणतः। श्लोकानुष्टभेनात्र निर्दिष्टान्यनुपूर्वशः ||४|| विभक्तिः प्रथमम्कंधो द्वितीयः संक्रमोदयौ। उपयोगश्च शेषास्तु तृतीयस्कंध इष्यते ॥५॥ एकान्नषष्टिममधिक-मप्तशताब्देषु(७५६) शकनरेन्द्रस्य । समतीतेषु ममाप्ता जयधवला प्राभूत-व्याख्या ॥६॥ गुजेरनरेन्द्रकीर्तेरन्तःपतिता शशांकशुभ्रायाः। गुप्तैव गुप्तनृपतेः शकस्य मशकायते कीर्तिः ॥७॥ गुर्जरयशः पयोऽब्धौ निमजीन्दौ विलक्षणं लक्ष्म । कृतमलि-मलिनं मन्ये धात्रा हरिणापदेशेन ।।८। भरत-सगरादि-नरपति-यशांसि तारानिमेन संहृत्य । गुर्जरयशसो महतः कृतोऽवकाशो जगत्सृजा नूनं ।।६।। इत्यादिसकलनृपतीनतिशय्यपयःपयोधि-फेनेत्या। गुर्जरनरेन्द्रकीर्तिः स्थेयादाचन्द्रतारमिह भुवने ॥१०॥