________________
ज्वालिनीकल्प - प्रशस्ति
तत्र स्थित एव ततस्तमसौ ददह्यमानमाध्याय । दहनाक्षरै रुदन्तं दुष्टं निर्द्वाटयामास ||२०|| निर्द्धाटितो महश्चेद् ध्यात्वैकं भूनदहनररररबीजं । शेत्रदशनिग्रहाणां किमस्त्य साध्या ग्रहः कोऽपि ॥ २१२ ॥ देव्यादेशाच्छास्त्रं तेन पुनर्व्वालिनीमतं रचितम् | तच्छिष्यां गांगमुनिर्नीलप्रीवो वीजावाख्यः ॥२२॥ आर्या तांतिरसब्बा विरुवट्टः क्षुल्लकस्तथेत्यनया । गुरुपरिपाट्याविच्छिन्न सम्प्रदायेन चागच्छत् ||२३|||| कन्दर्पेण ज्ञातं तेनापि स्वसुत निर्विशेषाय । गुणनंदिश्रीमुनये व्याख्यातं सोपदेशं तत् ||१४|| पार्श्वे तयोर्द्वयोरपि तच्छास्त्रं प्रथतोऽर्थतश्चापि । मुमिनेन्द्रनन्दिनाम्ना सम्यन्नादितं विशेषेण || २५ ॥ क्लिष्टग्रंथं प्राक्तनशास्त्रं तदिति स (स्व) चेतसि निधाय । तेजेन्द्रनन्दिमुनिना ललितार्यावृत्तगीताद्यैः ॥२६॥ लाचार्योक्तार्थे ग्रंथपरावर्तनेन रचितमिदं । सकलजगदेक विस्मयजननं जनहितकरं शृणुत ॥२७॥ मंत्रि-ग्रह-सन्मुद्रा - मण्डल - कटुतैल- वश्ययंत्र - सुतंत्रं । स्पनविधिर्नीराजनविधिरथ साधनविधिश्चेति ॥ २८ ॥ अधिकाराणामेषां दशभेदाना स्वरूपनिर्देशं । Terse संक्षेपात् प्रकटं देव्या यथोद्दिष्टम् ||२६| मौनी नियमितचित्तो मेधावी बीजधारणसमर्थः । मायामदनमदोनः सिद्धयति मंत्री न संदेहः ||३०|| सम्यग्दर्शनशुद्धी देव्यर्चनतत्पुरो व्रतसमेतः । मंत्रजपहोमनिरतोऽनालस्यो जायते मंत्री ॥३१॥ देवगुरुसमयभक्तः सविकल्पः सत्यवाग्विदग्धश्च । वाक्पटुरपगतशंकः शुचिरार्द्धमना भवेन्मंत्री ||३२||
१३७