________________
१३८
जैनग्रन्थ- प्रशस्तिसंग्रह
देव्याः पदयुगभक्तो लाचार्यक्रमाब्जभक्तियुतः । स्वगुरूपदेशमार्गेण वर्तते यः स मत्री स्यात् ||३३|| विद्यागुरुभक्तियुते तुष्टिं पुष्टि ददाति खलु देवी | विद्यागुरुभक्तिवियुक्तचेतसे द्वेष्टि नितरा सा ||३४|| सम्यग्दर्शन वाक्क छान्दसो भयसमेतः ।
शून्यहृदयः सलजः शास्त्रेऽस्मिन् नो भवेन्मंत्री ||३५||
इति हेलाचार्य प्रणीतार्थे श्रीमदिन्द्रनन्दियोगीन्द्र - विरचित ग्रंथसंदर्भे ज्वालिनीमते मंत्रिलक्षण निरूपणाधिकारः प्रथमः ॥
अन्तभाग:
द्रविडग समय मुख्यो जिनपतिमार्गोचितक्रियापूर्णः । व्रतसमिति गुप्तिगुती लाचार्यो मुनिर्जयति ॥ १६ ॥ यावत् क्षितिजलधिशशाका म्बर तार का कुलाचलास्तावत् । हेलाचार्योक्तार्थ: स्पेयाच्छ्रीज्वालिनी कल्पः ||२०|| इनि हेलाचार्य प्रणीतार्थे श्रीमदिन्द्रनन्दियोगीन्द्रविरचितग्रंथसन्दर्भे ज्वालिनी साधनविधिर्दशमः परिच्छेदः ॥
श्रासीदिन्द्रादिदेवस्तुतपद कमल भीन्द्रनंदिर्मुनीन्द्रो नित्योत्सच्चरित्रो जिनमतजलधिधौतपा पोपलेपः । प्रज्ञानावामलोद्यत्प्रगुणगणभृतोत्कीर्ण विस्तीर्ण सिद्धान्ताम्भोराशि स्त्रिलोक्याबुजवनविचरत्सद्यशोराजहंसः ||१|| यद्वृत्तं दुरितारिसैन्यहनने चण्डासिधारायितम् चित्तं यस्य शरत्सरसलिलवत् स्वच्छं सदा शीतलं । कीर्तिः शारद कौमुदी शशिभृतो ज्योत्स्नेव यस्याऽमला स श्रीवासवनं दिसन्मुनिपतिः शिष्यस्तदीयो भवेत् ॥२॥ शिष्यस्तस्य महात्मा चतुरनियोगेषु चतुरमतिविभवः । श्रीबप्पनंदिगुरुरिति बुधमधुपनिषेवितपदाब्जः ॥३॥