________________
१३६
जैनग्रन्थ-प्रशस्तिसंग्रह
रोदिति हाहाकारैः स्फुटाट्टहासं करोति सन्ध्याया । पति पठत्यथ वेदान् इसति पुनः कहकह-ध्वनिना ||७|| कोसावास्ते मंत्री यो मोचयति स्वमंत्रशकत्या मा । वक्तीति सावलेपं सविकारं जृम्भणं कुरुते ||||| दृष्ट्वा तामतिदुष्ट परिपीडिता मुनीन्द्रोऽसौ । व्याकुलितोऽभूत्तत्प्रतिविधानकर्तव्यतामूढः ||६|| तद्ग्रहविमोक्षणार्थं तद्ग्रामसमीपनीलगिरिशिखरे । विधिनैव वन्हिदेवीं स साधयामास मुनिमुख्यः ॥१०॥ दिन सकेन देव्या प्रत्यक्षीभूतया पुरः स्थितया । मुनिः किं कार्य तकार्यं वद मुनिरुवाचेत्थम् ॥११॥ कामार्थाद्यैहिक - फलसिद्धयर्थं देवि नोपरुद्धासि । किन्तु मया कमलश्री - ग्रह - मोक्षायोपरुद्धासि ॥१२॥ तस्माद् ग्रहमोक्षं कुरु देव्येतावदेव मम कार्ये । तद्वचनं श्रुत्वा सा बाण तदिदं कियन्मात्रम् ॥१३॥ मा मनसि कृथाः खेदं मंत्रेणानेन मोचयेत्युक्त्या । मृदुतरमा यसपत्रं विलिखितमंत्रं ददौ तस्मै ॥ १४ ॥ तन्मंत्रविधिमजानन् पुनरपि मुनिपो बभास ता देवीं । नास्मिन् वेद्मि किमप्यहमतो विवृत्यै तदभिधेहि ||१५|| तस्मै तथा ततस्तद्द्व्याख्यातं सोपदेशमयतत्त्वं । पुनरपि तद्भक्ति - शाददायि तत्सिद्धविद्येत्थम् ॥१६॥ साधनविधिना यस्मै त्वं दास्यसि होमनपविहीनोऽपि । भविता स सिद्धविद्यो को दास्यसि यस्य सोऽत्र पुनः ||१७|| उद्यानवने रम्ये जिनभवने निम्नगातटे पुलिने । गिरिशिखरेऽन्यस्मिन् वा स्थित्वा निर्जतुके देशे ॥ १८ ॥ हृदयहृदयमंत्र प्रजाप्य नियुतं तथा युतं हुत्वा । प्रकरोतु पूर्वसेवा प्रणिगद्यैवं स्वधाम गता ||१६||