________________
जैनग्रन्थ-प्रशस्तिसग्रह १०. नागकुमार-चरित ( मल्लिषेण सूरि ) आदिभाग:
श्रीनेमिं जिनमानम्य सर्वसत्वहितप्रदम् । वक्ष्ये नागकुमारस्य चरितं दुरितापहं ॥१॥ कविभिर्जयदेवाद्यैर्गद्यैर्पद्यैर्विनिर्मितम् । यत्तदेवास्ति चेदत्र विषमं मन्दमेधसाम् ।।२।। प्रसिद्धः संस्कृतैर्वाक्यै विद्वजन-मनोहरम् ।
तन्मया पद्यबन्धेन मल्लिषेणेन रच्यते ।।३।। अन्तभाग :
श्रुत्वा नागकुमार-चारुचरितं श्रीगौतमेनोदितं । भव्याना सुखदायकं भवहरं पुण्यासवोत्पादकं । नत्वा तं मगधाधिपो गणधरं भक्त्या पुरं प्रागम
च्छीमद्राजगृहं पुरंदरपुराकारं विभूत्या समं ।।१।। इत्युभयभाषाकविचक्रवर्ति-श्रीमल्लिषणसूरि-विरचिताया श्रीनागकुमारपंचमीकथाया नागकुमार-मुनीश्वर-निर्वाणगमनो नाम पंचमः सर्गः ।
* जितकषायरिपुर्गुणवारिधिनियतचारुचरित्रतपोनिधिः । जयतु भूपतिरीटविघट्टितक्रमयुगोऽजितसेनमुनीश्वरः ।।१।। अजनि तस्य मुनेर्वरदीक्षितो विगतमानमदो दुरितातकः । कनकसेनमुनिमनिपंगवो वरचरित्रमहाव्रतपालकः ।।२।। गतमदोऽजनि तस्य महामुनेः प्रथितवान् जिनसेनमुनीश्वरः । सकलशिष्यवरो हतमन्मथो भवमहोदधितारतरं[]कः ॥३॥ तस्याऽनुजभारुचरित्रवृत्तिः प्रख्यातकीति वि पुण्यमूतिः । नरेन्द्रसेनो जितवादिसेनो विज्ञाततत्त्वो जितकामसूत्रः ॥४॥ तच्छिष्यो विबुधाग्रणीर्गुणनिधिः श्रीमल्लिषेणायः संजातः सकलागमेषु निपुणो वाग्देवतालंकृतः।