________________
पुरुषार्थानुशासन-प्रशस्ति
१३३ म नयविनयोपेतैर्वात्यैर्मुहुः कविमानसं सुकृतसुकृताऽपेक्षो दक्षो विधाय समुद्यतं । श्रवणयुगलस्यात्मीयस्यावतंसकृते कृतीस्तु विशदमिदं शास्त्राभोज सुबुद्धिरकारयत् ॥२९॥ अथास्त्यप्रोतकाना सा पृथ्वी पृथ्वीव संततिः। सच्छायाः सफलाः यस्या जायते नरभूहाः ॥२२॥ गोत्रं गायेमलंचकार यं इह श्रीचन्द्रमाश्चन्द्रमो बिम्बास्यस्तनयोऽस्य धीर इति तत्पुत्रच हींगाऽभिधः। दोहे लब्धनिजोद्भवेन सुधियः पद्मश्रियस्तस्त्रियो नव्यं काव्यमिदं व्यधायि कविनाऽहत्पादपद्यालिना ॥२३॥ पाटादिवर्णसंज्ञेनेति शेषः॥ शब्दार्थोभयदुष्ट यव्यधाय्यत्र मया पदं ।
सद्भिस्ततस्तदुत्सायं निघेयं तत्र सुन्दरं ॥२४॥ जीवाच्छोजिनशासनं सुमतयः स्युः क्ष्माभुजोहचतास्सर्वोप्पस्तु निरामयः सुखमयो लोकः सुभिक्ष्यादिभिः । संतः सन्तु चिरायुषोऽमलधियो विज्ञातकाव्यश्रमाः शास्त्र चेदममी पठन्तु सततं यावत्रिलोकोस्थितिः॥२५॥
यदेतच्छास्त्रनिर्माणे मवात्यल्पधिया कृतं ।
दंतव्यमपरागैर्मे तदागः सर्वसाधुभिः ॥२६॥ इति प्रशस्तिः ॥ समाप्तं चेदं पुरुषार्थानुशासननाम शास्त्रमिति ॥
[बम्बई ऐ०५० स० भ० प्रति नोट-यह ग्रन्थप्रति अच्छी साफ और शुद्ध लिखी हुई है और किसी किसी स्थानपर टिप्पणको भी लिये हुए है।