________________
११२
जैनग्रन्थ-प्रशस्तिसंग्रह गुणा यस्मिस्ते श्री-नय-विनय-तेजःप्रभृतयः
समस्ता ये व्यस्ता अपि न सुलभाः क्वाऽपि परतः ॥१०॥ महम्मदेशेन महामहीभुजा निजाधिकारिष्वखिलेष्वपीह यः। सम्मान्य नीतोपि सुधीः प्रधानता न गर्वमप्यल्पमधत्त सत्तमः ॥११॥ सर्वैरहपूर्विकया गुणैर्वृतं निरीक्ष्य दोषा निखिला यमत्यजन् । . स्थाने हि तद्भरिभिराश्रितेऽरिभिः स्थाने वसंतीह जना न केचन ॥१२॥ श्रुतशताये विनयेन धीमता तया नयस्तेन च येन संपदा । तया च धर्मो गुणवनियुक्तया सुखंकरं तेन समस्तमीहितं ॥१३॥ सत्योक्तित्वमजातशत्रुरखिलक्ष्मोद्धारसारं नयं रामः काममुदाररूपममलं शीलं च गंगांगजः। कर्णधारुवदान्यतां चतुरता भोजश्च यस्मायिति स्वं खं पूर्वनृपा वितीय सुगुण लोकेऽत्र जग्मुः परं ॥१४॥ धनं धनार्थिनो यस्मान्मानं मानार्थिनो जनाः। प्राप्यासन् सुखिनः सर्वे तवयं तवयार्थिनः ॥१५॥ निशीनोः कौमुदस्येष्टो नाब्जानामन्यथा रवेः । यस्योदयस्तु सर्वेषा सर्वदेवेह वल्लभः ॥१६॥ स्त्रीकुलीनाऽकुलीना श्रीः स्थिरा धीः कीर्तिरस्थिरा । यत्र चित्रं विरोधिन्योऽप्यऽमूर्तेनुः सहस्थितिं ॥१॥ तस्यानेकगुणस्य शस्यधिष्णस्याऽमयसिहस्य स । स्यातः सूनुरभूत्प्रतापवसतिः श्रीलक्ष्मणाख्यः क्षितौ। यो वीक्ष्येति वितय॑ते सुफविभिर्नीत्वा तनु मानवीं भर्मोऽयं नु नयोऽथवाऽथ विनयः प्राप्तः प्रजापुण्यतः ॥१८॥
यशो यैर्लक्ष्मणस्यैणलक्ष्मणाऽत्रोपमीयते। शंके न तत्र तैः साक्षाञ्चिलाक्षलक्ष्मलक्षितं ॥१६॥ श्रीमान्सुमित्रोन्नतिहेतुजन्मा सल्लक्षणः सन्नपि लक्ष्मणाल्यः। रामातिरिक्तो न कदाचनासीदधाच यो रावणसोदरत्वं ॥२०॥