________________
पुरुषार्थांनुशासन - प्रशस्ति
इच्छंत्याचे पिणीं श्रोतुं केचिद्विपि परे । संवेगिनीं कथां केचित्परे निवैदिनीं जनाः ॥४०॥ केचिद्धर्म्मार्थिनः केचिदर्थकामार्थिनोऽङ्गिनः । मुमुक्षवोऽन्ये तत्सर्वान्के रंजयितुमीशते ||४१|| प्रायः सर्व्वप्रियं यद्वा पुरुषार्थानुशासनं । Fast तत्तथा स्वस्मिन् जिते रेंजितं जगत् ॥४२॥ इति स्वगतमालोच्य शास्त्रमन्वर्थसंज्ञकं । मया प्रसूयते नाम्ना पुरुषार्थानुशासनम् ||४३|| पुरुषार्थश्चतुरंग उपदेशो ऽनुशासनं । चतुर्वर्गश्व धर्माऽर्थ-काम-मोक्षः प्रकीर्तितः ॥४४॥ चतुर्वगपि मानुष्यैः कैश्विदद्भुतचेष्टितैः । प्राप्य कालादिसामग्री साध्यसे कृतसत्क्रियैः ॥ ४५ ॥ विना मोक्षं वतुर्वर्गत्रिवर्गः सद्भिरुच्यते । स एव साध्यते कैश्विदलब्ध्वाऽखिललधिभिः ॥४६॥ जन्मसाफल्यकृत्पुंसां स्यात्रि गोंपि साधितः । परस्पराविरोधेन सुखश्रेयस्करो यतः ॥४७॥ विरोधयेन्न वा धर्मे साधयन्शुद्धधीः परौ । परौ तु साधयन्व न हि जातु विरोधयेत् ॥४८॥ नृणा विरोधितावर्थकामौ किं किल कुर्व्वतः । धर्मस्तु हंति तावत्रामुत्र चेषद्विरोधितः ॥४६॥ धर्मादेव प्रसूतं श्रर्थकामौ नृणामिह । सम्यत्क्त्रादिव सुज्ञानचरित्रे सुखसाधने ॥ ५० ॥ एक एव क्षमो धर्मः सर्वकल्याण योजने । एक एव न किं भानुरल सर्वार्थदर्शने ॥२१॥ उत्कल्लोपि वाशिर्षाहुभ्यां जातु तीर्यते न स धर्ममाहात्म्यं वक्तुं केनापि पार्यते ||४२||
1
PRE