________________
१२८
तथा च
पुरुषार्थानुशासन- प्रशस्ति
द्वित्रा एवात्र ते सन्तो मण्यो वा सुजातयः । नयंति सुत्रमाभास्य सुबर्णमपि ये स्वयं ॥ २८ ॥ तावन्त एव ते मन्येऽणवः स्पष्टाः ससर्ज यैः F सन्तोऽसतोऽन्यथा मृज्यान स नास्ति विविविंधीः ॥ २६ ॥ तत्किं काव्याधानेन यशः श्रेयोऽर्थिभिन्नभिः । कार्यः सदा सदाचारो लभ्येते लघु ते यतः ||३०| सुमनोगतमाख्याय मयीत्युपरते सति । सम्मितं स ततोऽवो चल्लक्ष्मणः सुविचक्षणः ||३१|| नृभिर्विपश्चिता वाच्या न पुरः प्रचुरा गिरः । कथ्यतेऽदस्ततस्तथ्यं संक्षेपेण मया वचः ॥ ३२॥ भवन्मानसजं काव्यवारिजं निनकर्णयोः ।
सीकर्तुमिच्छामि विधेयस्तदनुग्रहः ||३३|| साहाय्यं स्वामिभक्ताना शारदा वो विधास्यति । काव्यसिद्ध सता सैव मातेव हितकारिणी ॥ ३४॥ तस्येत्यावश्यकं वाक्यं निशम्याऽहं स्वमानसे । वाग्देवीं प्रणमंस्तस्याः प्रसादायेत्यचितयं ॥ ३५ ॥
मईति मे भक्तिग्देवी तन्मुखोद्भवा । काव्यं मे कुर्वतः किन्न सा सहायी भविष्यति ॥ ३६ ॥ कुर्वे मंदोऽपि तत्काव्यमहं शोचामि किं बहुः । सहायं सबलं प्राप्य किं न हीनोपि वल्गति ॥३७॥ काव्यसंस्कारकर्तारः संतिबा गुरवो मम । शाततद्धेतवः संचिन्तया मम कि तया ॥ ३८ ॥ निश्चित्येति ज्ञयं पश्चादिति चिंतामुपागमं । विचित्रा रुचयः पुंसामनुशास्मि तदत्र किं ॥ ३६ ॥