________________
पुरुषार्थानुशासन प्रशस्ति
किञ्च - भगवन्समन्तभद्रः श्रीमद्भट्टाकलङ्क इत्याद्याः । चक्रस्तर्कग्रन्थान्कुतर्क विक्षेपक्षांस्तान् ||१५|| श्रीपूज्यपादभगवत्प्रमुखाः विमुखा कुमार्गतो कुर्वन् । व्याकरणानि नृणा वाङ्मल [न? ]व्याकरणनिपुणानि ॥ १६ ॥ जिनसेनो गुणभद्रो र विषेणश्चैवमादिकविराजाः । महता निहताहांसि व्यधुः पुराणानि पुरुषाणा ॥ १७॥ श्री भट्ट वरादयो दुरंताघपाशशस्त्राणि । सुमधुरगिरां व्यरचय ननगाराचारशास्त्राणि ॥ १८॥ श्री शिवको टिमुनीश्वरपुरोगमाः स्ववगतागमा नृणा । ज्ञानतपश्चारित्रं सदर्शनं दर्शयामासुः || १६ || श्री कुन्दकुन्दसूरिः श्रीमद्डमाम्बातिदेव इत्याद्याः । साधु व्यदधुस्तत्त्वग्रन्थानुद्दिष्टपरमार्थान् ॥२०॥ श्री सोमदेव कुर्वताऽपूर्व शब्द सर्वस्वाः । निरवद्यगद्यपद्यश् चम्पूःकृतबुधशिरःकम्पाः ॥२१॥ श्रीवीरनन्दिदेवो धनञ्जयश्वाऽसगो हरिश्चन्द्रः । व्यधुरित्याद्याः कवयः काव्यानि सदुक्तियुक्तीनि ॥ २२॥ श्रीजयसेनाचार्योऽमितगतियतिरेवमादयः सदयाः । ग्रन्थीकृत्य सदनगारिणामूचुराचारान् ||२३|| इत्याद्यागमभेदान्विदितमनोवाग्वपुः मलछेदान् । सर्वानपि जित दुयचक्राः कविचक्रिणश्चक्रुः ||२४| इत्यादिपौरस्त्य महाकवीना रुग्भी रवीनामिव यत्र वाग्भिः । प्रकाश्यते विश्वपदार्थ जातं न तत्र भात्यन्यवचः प्रदीपः || २५ || श्रन्यच्च - भूवाच्यते कलौ जाताः प्रभूताः साप्रतं खलाः । कुर्व्वतोऽपकृतीरेव नृणामाराधिताश्च ये ||२६|| वंद्यानामपि निन्दन्ति ये गिराविमलाः खलाः । माशा किनते गोधनाः कृपा कुर्य्यरजासु किं ||२७|
१२७