________________
१२६
जैन ग्रन्थ- प्रशस्तिर्मग्रह
धर्मराजश्च देवेन्द्रो जिनेन्द्रः स्वस्तिटोऽस्तु नः ||२|| शक्तिव्यक्तिकृताऽनन्तगुणाय परमात्मने । भक्त्यात्मनः सतां शक्त्या गुणाना व्यक्तये नमः ||३|| तां नमामि गिरं ब्राह्मीं गुरू व ददतेऽङ्गिना । यादेयोपदेशेन सेविता ये हितं परं ||४||
ser मा श्रीपथान्नाम पुरीन्नाकिपुरीमिव । स्वां श्रियं मर्त्यलोकेऽस्मिन्नावि: कर्तुमिता स्थितं ॥ ५ ॥ श्रीमतो नरसिंहस्यामरसिंहस्य सन्नयः । तनयो विनयोपेत इतिश्रीलक्ष्मणोऽभणत् ||६|| (द्वयं) शुद्धयर्थं यशः श्रेयश्व धीमता ।
स्वर्जनीयं भवेता भोः काव्येनैवात्र ते भृशं ॥ ७॥ काव्यं विधीयता किंचित्पुरुषार्थोपदेशितं । स्वार्थकृत्ये न धीमंतो भवंति यदनुद्यताः ||८||
श्रुत्वा तस्येति सुश्लिष्टरचन वचनं मया । इति सोऽभाणि भो युक्तं त्वयोक्त किंत्वितः श्रृणु ॥ ६ ॥ योगक्षेमौ सुराजाद्वा जायेते ते सुकान्यतः । कुराजादिव तावेव नश्यत्तस्तु कुकाव्यतः ||१०|| काव्यं निराहुराचार्या मावं वा कर्म वा कवेः । तन्नष्टाऽशेपदोषं स्यात्सुकाव्यं परथा परं ॥ १२ ॥ श्रशत्वाद्वा प्रमादाद्वा शब्दादौ स्खलनं कवेः । दोषः स्यात्ते तु शब्दाद्याः प्रभूताः काव्यहेतवः ||१२|| तत्तास्ते जानते केचिदप्रमत्ताः सुमेधसः । विश्ववाङ्मयवाराशेः पारेयै रुद्यतेर्गतं ॥ १३ ॥ ताशा मादृशां येषा नाभूद्योगोपि तेपि चेत् । काव्यायाद्यमं कुर्य धृष्टत्वं विमतः परं ||१४||