________________
जैनग्रन्थ-प्रशस्तिसंग्रह त्रिवर्गसाधने तस्माद्धर्ममुख्यतया नृभिः। . यतितव्यं सदा जन्मसाफल्यं नेतुमात्मनः ||५शा दुरापं प्राप्य मानुष्यं यैस्त्रिवर्गो न साधितः । केवल नेह लोकस्तैः परलोकोऽपि बाधितः ।।५४४ विना त्रिवर्गसंसिद्धया मानुषस्य पशोरपि । केवलं खुरशृंगादिकृतो भेदोऽभिवेदितः ॥५५॥ मानुष्येऽपि न यः स्वार्थसाधनायोद्यतोऽधमः । तं तिरश्चन गति कांचित्प्राप्तं को बोधयिष्यति ॥५६॥ स्वार्थसिद्धिर्भवेद्यत्र तिर्यतमपि तद्वरं । मानुष्यमपि तन्निछ स्वार्थभ्रंशो भवेद्यतः ॥५॥ यथाऽनर्थकमाप्तत्वं विनाऽनन्तचतुष्टय । पुरुषार्थ विना नृणा पुरुषत्वं तथा वृथा ॥५८।। पुमर्थसाधनोपायमवबुध्य ततः सुधीः।। साधयेत् तथा नृत्वं कृतार्थ जायते यथा ||५|| इति कतिचिदुदीर्याधुनिंद्यपद्यानि लोकद्वितयगतसुखार्थी श्रोतृशुश्रूषुतायै । जिनपतिमतसूत्रात् कथ्यतेऽथाप्त्युपायः
कृतसफलसमृद्धः सच्चतुर्वर्गसिद्धः ॥६०॥ इति पंडितश्रीगोविन्द विरचिते पुरुषार्थानुशासने कायस्थमाथुरवंशाऽवतंस-श्रीलक्ष्मणनामाकिते कथामुखाऽभिधानोऽयं प्रथमोऽवसरः परः ।।।। अत्राशीर्वादः --
भोगींद्रो भोगिवर्गः कथमपि विदितः प्रस्फुरद्भोगरत्नैअन्द्रोंकेनोडुवृन्दैरपि सुरनिकरैक्सहस्रेण चेन्द्रः । कीर्त्या यस्य त्रिलोक्यामिव सुरसरिताश्चेतितायां स्वसंगाच्छीमान्सोऽमर्त्यर्सिहश्चिरमुरुचरितो नन्दतान्नंदनाभ्यां ॥१०॥