________________
धन्यकुमारचरित्र-प्रशस्ति
श्रादायेति महाक्त भवहर माणिक्यसेनो मुनिनैर्ग्रन्थ्य सुखद चकार हृदये रत्नत्रय मण्डनं ॥ शिष्योऽभूत्पदपकजैकभ्रमरः श्रीनेमिसेनो विभु. स्तस्य श्रीगुरुप गवस्य सुतपाश्चारित्रभूषान्वितः । कामक्रोधमदान्ध-गन्धकरिणो ध्वसे मृगाणापतिः सम्यग्दर्शन-बोध-साम्य-निचितो भव्याऽबुजाना रषिः ॥२॥ प्राचार समितीर्दधौ दशविध धर्म तप सयमम् सिद्धान्तस्य गणाधिपस्य गुणिनः शिष्यो हि मान्योऽभवत् । सैद्धान्तो गुणभद्रनाममुनिपो मिथ्यात्व-कामान्तकृत् स्याद्वादामलरत्नभूषणघरो मिथ्यानयध्वंसकः ॥३॥ तस्येय निरलकारा ग्रन्थाकृतिरसुन्दर । अलंकारवता दृष्या सावकाराकृता न हि ॥४॥ शास्त्रमिद कृत राज्ये राशो श्रीपरमादिनः । पुरे विलासपूर्वे च जिनालयैविराजिते ॥५॥ यः पाठयति पठत्येव पठन्तमनुमोदयेत् । स स्वर्ग लभते भव्यः सर्वाक्षसुखदापकं ॥६॥ लम्बकचुकगोत्रोऽभूच्छुभचन्द्रो महामनाः । साधुः सुशीलवान् शान्त. श्रावको धर्मवत्सलः ॥७॥ तस्य पुत्रो बभूवाऽत्र बल्हणो दानवान्वशी। परोपकारचेतस्को न्यायेनार्जित-सद्धनः ।।८।। धर्मानुरागिणा तेन धर्मकथा-निबन्धन । चरित कारित पुण्य शिवायेति शिवायिनः ॥६॥ इति धन्यकुमारचरित्र पूर्ण वातं ॥
[ देहली-पचायती मन्दिर प्रति