________________
बेनग्रन्थ-प्रशस्तिसंग्रह ८३. सिद्धिविनिश्चक-टीका ( आचार्य अनन्तवीर्य ) आदिभाग:
अकलकं जिनं भक्त्या गुरुं देवी सरस्वतीं। नत्वा टीका प्रवक्ष्यामि शुद्धा सिद्धिविनिश्चये ॥१॥ अकलंकं वचःकाले कलौ न कलयाऽपि यत् । नृषु लभ्यं क्वचिल्लन्ध्वा तत्रैवाऽस्तु मतिमम ॥२॥ देवस्याऽनन्तवीर्योऽपि पदं व्यक्तं तु सर्वतः । न जानीतेऽकलंकस्य चित्रमेतत्परं भुवि ॥३॥ अकलंकवचोऽम्भोधेः सूक्तरत्नानि यद्यपि । गृह्यन्ते बहुभिः स्वैरं सद्रत्नाकर एव सः॥४॥ सर्वधर्मस्य नैराग्यं कथयन्नपि सर्वथा।
धर्मकीर्तिः पदं गच्छेदाकलंकं कथं ननु ।।५।। शास्त्रस्यादौ तदविघ्नप्रसिद्धिप्रथनादिकं । फलमभिसमीक्ष्य सर्वज्ञमित्यादिमगलमाह । तस्यायमर्थः। ( इसके बाद "सर्वशं सर्वतत्वार्थ-स्याद्वादन्यायदेशिन | श्रीवर्द्धमानमभ्यर्च्य वक्ष्ये सिद्धिविनिश्चयम्" मूलके इस मंगलपद्यका अर्थ तथा व्याख्यान है और फिर प्रथम प्रस्तावके अन्यपद्योकी टीका है)।
इति श्रीरविभद्रपादोपजीव्यनन्तवीर्य-विरचिताया सिद्धिविनिश्चयटोकाया प्रत्यक्षसिद्धिः प्रथमः प्रस्तावः ॥१॥ अन्तभाग:
"यथेन्द्र इत्यादि निदर्शनमत्रैवेत्थं भूतस्येत्यादिना शास्त्रार्थमुपसहरमाह-तदेवमित्यादि शास्त्रान्ते मगलमार-जीयादित्यादि ।।
इति सिद्धिविनिश्चयटीकायामनन्तवीर्यविरचिताया निक्षेपसिद्धिादशमः प्रस्तावः समाप्तः॥ (इसके आगे ग्रन्थदान-प्रशस्ति है। टीकाकारकी कोई प्रशस्ति नहीं)।
[ कच्छदेशस्थ कोडायग्रामकी प्रति परसे पुरातत्वमन्दिर अहदाबादमें कराई गई प्रति