________________
११६
जैनबन्ध-प्रशस्तिसंग्रह इति सकलतार्किक-चक्रवर्ति-ममन्तभद्र-मुनीश्वर-प्रमुख-कविवृन्दारकवृन्द-मानस-सरोवर-राजहंसायमानहत्प्रतिमाभिषेक-विशेष-विशिष्ट-गंधोदकपवित्रीकृतोत्तमाङ्गन अय्यपाउँन श्रीपुष्पसेनार्योपदेशक्रमेण सम्यग्विचार्य पूर्वशस्त्रेभ्यः सारमुद्धृत्य विरचितः श्रीमज्जिनेद्रकल्याणभ्युदयापरनामधेयोऽयं त्रिंशदभ्युदयो ग्रंथः समातः॥ (ग्रन्थ-श्लोकसंख्या ३५६०)
[श्रवणबेल्गोल-दौर्बलिशास्त्रि-प्रति ८२. धन्यकुमार-चरित्र (भ० गुणभद्र) आदिभाग:
स्वयंभुवं महावीरं लब्धाऽनंतचतुष्टयं । शतेन्द्रप्रणतं वन्दे मोक्षाय शरणं सताम् ॥शा प्रणमामि गुरुश्चैव सर्वसत्वाऽभयंकरान् । रत्नत्रयेण मंयुक्तान्संसारार्णवतारकान् ॥२॥ दिश्यात्सरस्वती बुद्धिं मम मन्दधियो दृदा। भक्त्यानुरंजिता जेनी मातेव पुत्रवत्सला ॥३॥ स्याद्वादवाक्यसंदर्भ प्रणम्य परमागमम् । श्रुताथेभावनां वक्ष्ये कृतपुण्येन भाविताम् ॥४॥ क्षमंतु सजनाः सर्वे ये समंजस-बुद्धयः। शोधयंतु पद दुष्टं विशुद्ध स्थापयन्तु ते ॥५॥
मन्तभाग:
इति धन्यकुमारचरिते तत्त्वार्थभावनाफलदर्शके प्राचार्यश्रीगुणमद्र. कते भन्य-वल्हण-नामाङ्किते धन्यकुमार-शालिभद्रयति-सर्वार्थसिदिगमनो नाम सप्तमः परिच्छेदः ॥७॥
यः संसारमसारमुन्नतमतिर्शात्वा विरक्तोऽभवदत्वा मोहमहामटं शुभमना रागाधकार तथा ।