________________
जिनेन्द्रकल्याणाम्बुदय-प्रशस्ति तस्यैव पत्नी कुलदेवतेव पतिव्रतालंकृतपुण्यलक्ष्मीः । यदकमाम्बा जगति प्रतीता चारित्रमूर्तिर्जिनशासनोत्का ||२६।। तयोरासीत्सूनुस्सदमलगुणाढयः सविनयो जिनेन्द्र-श्रीपादाम्बुरुह-युगलाराधनपरः ॥ अधीतिः शास्त्राणामखिलमणिमन्त्रौषधवता ।
विपश्चिन्निरोंता नयविनयवानाऽऽर्य इति यः ॥३०॥ श्रीमूलसङ्घकथिताखिलसन्मुनोना श्रीपादपद्मसरसीरुहराजहंसः । स्यादय्यपार्य इति काश्यपगोत्रवयों जैनालपाकवरवंशसमुद्रचन्द्रः ||३|| प्रसन्नकविरावृतैः प्रवचनागविद्यामृतैः परमतत्त्वधर्मामृतैः सुधाकर इवाऽपरोऽखिलकराभिरामः सदा चकास्ति सुकृतोदयः कुवलयोत्सवः श्रीयुतः ॥३२॥
कवितानाम काप्यन्या सा विदग्धेषु रज्यते।। केपि कामयमानास्ता क्लिश्यंते हन्त बालिशा ॥३३॥ स्वस्त्यस्तु सज्जनेभ्यो येषा हृदयानि दर्पणसमानानि । दुर्वचन-भस्म-संगादधिकतर यान्ति निर्मलताम् ॥३४॥ स्वस्त्यस्तु दुर्जनेम्यो यदीयभीत्या कविजाः सर्वे । रचयन्ति सरससूक्ति कवित्वरचनासु ये कृतिषु ॥३५॥ असता मंगपंकेन यदंगं मलिनीकृतं । तदह धौतुमिच्छामि साधुसंगतिवारिणा ॥३६॥ मुस्वरत्वं सुव्रतत्वं साहित्यं भाग्यसंभवं । बलात्कारेण बन्नीतं स्वाधीनं नैव आयते ॥३॥ शब्दशास्त्रमपि काव्यलक्षणं छंदसः स्थितिमजानता धृ(क)तिः। अय्यपार्य-विदुषा विनिर्मिता कृतवरप्रसादतः(१)॥३८॥ शाकान्दे विधुवाधिनेत्रहिमगो(१२४१)सिद्धार्थसम्वत्सरे
माधे मासि विशुद्धपक्षदशमी-पुष्पीचारेऽहनि । ग्रंथो रुद्रकुमारराज्यविषये जैनेन्द्रकल्याणभाक् संपूर्णोऽभववेकशैलनगरे श्रीपालबन्(नन्यू का बन्धोजितः ॥३६॥