________________
जिनेन्द्रकल्याणाभ्युदय-प्रशस्ति अहंदादीनभीष्टार्थसिद्धय शुद्धित्रयान्वितः । स्तुत्यानन्तगुणोपेतान् ध्यात्वा स्तुत्वा प्रणम्य च ॥११॥ श्रीमत्समंतभद्रादिगुरुपर्वक्रमागतः । शास्त्रावतारसम्बन्धः प्रथमं प्रतिपाद्यते ॥१२॥ पुरा वृषभसेनेन गणिना वृषभाईतः । अवधार्याऽभ्यधाय्येतद्भरतेश्वरचक्रिणे ||१३|| ततोऽजितजिनेन्द्रादितीर्थकृद्भयोऽवधार्य गा। तत्तद्गणधरा लोके धामिकाणामिहाऽब्रुवन् ।।१४।। ततः श्रीवर्द्धमानार्हदगिरमाकर्ण्य गौतमः। राज्ञे लोकोपकारार्थ श्रेणिकायाऽब्रवीद्गणिः ॥१५॥ तस्माद्गणभेदाचार्याद्यनुक्रमसमागतः । नाम्ना जिनेन्द्र कल्याणाभ्युदयोऽयमिहोच्यते ॥१६॥ सेन-वीर-सुवीर्य-भद्र-समाख्यया मुनिपंगवाः नन्दि चद्र-सुकीर्ति-भूषण-मया मुनिसत्तमाः। सिह-सागर-कभ प्रास्रवनामभिर्यतिनायकाः
देव-नाग सुदत्त-तंग-समायैर्मनयोऽभवन् ॥१७॥ तेभ्यो नमस्कृत्य मया मुनिभ्यः शास्त्रोदधिसूक्तिमणींश्च लब्ध्वा । हारं विरच्यार्यजनोपयोग्यं जिनेन्द्रकल्याणविधिय॑धायि ॥१८॥
वीराचार्य-सुपूज्यपाद-जिनसेनाचार्य-संभाषितो यः पूर्वं गुणभद्रसूरि-वसुनन्दीन्द्रादिनन्धर्जितः । यश्चाशाधर-हस्तिमल्ल कथितो यश्चैकसंधिस्ततः । तेभ्यः स्वाहृत्सारमध्यरचितः स्याज्जैनपूजाक्रमः ॥१६॥ तर्क-व्याकरणागमादि-लहरीपूर्ण-श्रुताम्भोनिधेः स्याद्वादाम्बरभास्करस्य धरसेनाचार्यवर्यस्य च । शिष्येणाऽय्यपकोधिदेन रचितः कौमारसेनेमुनेथोऽयं जयताज्जगत्रयगुरोबिम्बप्रतिष्ठाविधिः॥२०॥