________________
११०
जैनग्रन्थ-प्रशस्तिसंग्रह इत्यसग-कृतौ शान्तिपुराणे मंगवतो निर्वाणगमनो नाम षोडशः सर्गः ॥१६॥
[ जयपुर प्रति ____८१. जिनेन्द्र-कल्याणाभ्युदय (अय्यपार्य) पादिभाग:
लक्ष्मी दिशतु वो यस्य शानादर्श जगत्रयं । व्यदीपि स जिनः श्रीमान् नाभेयो नौरिबाम्बुधौ ।।१।। मागल्यमुत्तमं जीयाच्छरण्यं यद्रजोहरं । नि(नी)रहस्यमरिघ्नन्तत्पंचब्रह्मात्मकं महः ॥२॥ टोपसतापशमनी वाग्ज्योत्स्ना जिनचन्द्रजा। वर्धयन्ती श्रुताम्भोधि स्वान्तध्वान्त धुनोतु नः ।।३।। मोक्षलक्ष्म्या कृतं कंठहार-नायक-रत्नता । रत्नत्रयं नुमः सम्यग्दृग्शानाचारलक्षणं ॥४॥ स्याद्वादाकाशपूर्णेन्दु व्याम्भोरुहभानुमान् । दयागुणसुधाम्भोधिर्धर्मः पायादिहाहतां ॥५॥ अहिंमा-सूनृत-स्तेय-ब्रह्मचर्याऽपरिग्रहं । सर्वपापप्रशमनं वर्धता जिनशासनं ।।६।। पंचकल्याणसम्पूर्णः पंचमशानभासुरः । वः पंचगुरुवः पान्तु पंचमीगतिसाधकाः (१७॥ घृषभादीनह वर्धमानान्तान् जिनपगवान् । चतुर्विंशतितीर्थेशान स्तुवे त्रैलोक्यपूजितान् ॥८॥ वन्दे वृषभसेनादीन् गणिनो गौतमान्तिमा(का)न् । श्रुतकेवलिनः सूरीन् मूलोत्तरगुणान्वितान् ॥६॥ अनुयोगचतुष्कादिजिनागमविशारदान् । जातरूपधरान्स्तोष्ये कविवृन्दारकान् गुरून ॥१०॥