________________
जैन ग्रन्थ- प्रशस्तिसंग्रह
पूर्वस्माद् परमागमात्समुचितान्यादाय पद्यान्यहं तत्र प्रस्तुतसिद्धयेऽत्र विलिखाम्येतन्न दोषाय तत् । कल्याणेषु विभूषणानि धनिकादानीय निष्किचनः शोभा स्वतनुं न भूषयति कि साराजते नाऽस्य तैः ॥ २१॥ जिनेन्द्र बाणी - मुनिसंघ- भक्त्या जिनेन्द्र कल्याणनुति पठित्वा । जिनेन्द्रपूजा रचयन्ति तेऽमी जिनेन्द्रसिद्ध श्रियमाश्रयन्ति ||२२||
इति विद्यानुवादागविश्रुतजिनसंहिताश्रयोपासकाध्ययनेऽर्हत्प्रतिष्ठासारसंग्रहे जिनेन्द्रकन्याभ्युदये शास्त्रावतारसम्बन्धो नाम प्रथमाभ्युदयः ॥ १ ॥ अन्तभाग :
नमस्कृत्य जिन वीरं नृसुरासुरपूजितं । गुरुणामन्वयं वक्ष्ये प्रशस्तगुणशालिनाम् ||१|| श्रीमूलसंघव्योम्नेन्दुर्भारते भावितीर्थंकृद् । देशे समन्तभद्रार्यो जीयात्प्राप्तपदर्द्धिकः ||२|| तत्त्वार्थसूत्रव्याख्यान- गंधहस्ति-विधायकः । स्वामी समन्तभद्रोऽभूदेवागम निदेश (दर्श) कः ||३|| अवटुतटमरति झटिति स्फुटपटुवा चाटधूर्जटेजिह्वा । वादिनि समन्तभद्र स्थितिर्वाति का कथाऽन्येषाम् ||४|| शिष्यौ तदीयौ शिवकोटिनामा शिवायनः शास्त्रविदा वरेण्यौ । कृत्स्नश्रुतं श्रीगुरुपादमूले ह्यधीतवन्तौ भवतः कृतार्थो ||५|| तदन्येऽभूद्विदुषा बरिष्ठः स्याद्वादनिष्टः सकलागमशः । श्री वीरसेनोऽजनि तार्किक श्रीविध्वस्तरागादिसमस्तदोषः ||६|| यस्य वाचा प्रसादेन ह्यमेयं भुवनत्रयं । श्रासीदष्ठागरूपेण गणितेन प्रमाणितं (नैमित्तज्ञानरूपं बिदा बरं) ||७|| तच्छिष्पप्रबरो जातो जिनसेनमुनीश्वरः । यद्वाग्म पुरोरासीत्पुराणं प्रथमं भुवि ॥ ८ ॥
११२