________________
85
जैनग्रन्थ-प्रशस्तिसंग्रह कर्मग्रंथ-विचारसारसरिणी रत्नत्रयस्याकरः श्रद्धाधुरलोकलोकनलिनी-नाथोपमः सांप्रतम् । तत्पट्टेऽचलचूलिकासुतरणिः कीर्त्यादिविश्वंभरे नित्यं भाति सहस्रकीर्तियतिपः ख्यातोऽसि(स्ति) दैगंबरः॥१४ श्रीमांस्तस्य सहस्रकीर्तियतिनः पट्टे विकष्टेऽभवत् क्षीणागो गुणकीर्तिसाधुरनघो विद्वज्जनानंदितः । मायामानमदादिभूधरपवी राद्धान्तवेदी गणी। हेयाहेयविचारचारुधिषणः कामेभकंठीरवः ॥१५॥ जीयाच्छीगुणकीर्तिसाधुरसिकश्चारित्रहरज्ञानभाक् श्रीमन्माथुरसघपुष्करशशी निर्मक्तदंभारवः । तत्पट्टे व्रतशीलसंयमनदीनाथो यशःकीर्तिराट् दुर्दडैककुदकाममथनो निग्रन्थमुद्रावरः॥१६|| निःपापे जिनपादपंकजधरं विष्णुष्टचेतोगृहः(१)। शास्त्रारंभसुतंडताडवकरः स्याद्वादसप्रेक्षणः ॥१७॥ नत्पट्टे श्रीजिनचंद्रसूरिाणी जिनस्येव बभौ बुधेषु ।
विद्यात्रयी कठविराजमानः तस्य त्रयीरत्नपवित्रगात्रः ॥१८॥ तच्छिष्यजातः श्रुतकीर्तिमाधुः श्रुतेषु सर्वेषु विशालकीर्तिः । तपामयी ज्ञानमयी च कीर्तिर्यस्यर्षिसंघेषु बभौ शशीव ॥१६॥ तच्छिष्यजातो बुधराघवाख्यो गोपाचले कारितजैनघामा । तपाधनश्रीश्रुतसर्वकोविदः नरेश्वरैर्वदितपादपद्मः ॥२०॥ तच्छिष्यज्येष्ठो बुधरत्नपालो द्वितीयकः श्री वनमालिनामा । तृतीयकः कान्हरसिघसंज्ञः तस्यात्मजो लालमणिः प्रवीणः ॥२१॥ स्वशक्तिभाजा मणिना सुभक्तिना धियाल्पयोक्ता रविवंशपद्धतिः।
यदत्र किंचिद्रचितं प्रमादतः परस्परव्याहतिदोषदूषितं ॥२२॥ तदप्रमादास्तु पुराणकोविदाः सजंतु जंतुस्थितिशातिवेदिनः । प्रशस्तवंशो रविवंशपर्वतः क मे मतिः काल्पतराल्पशक्तिका ॥२३॥