________________
श्रादिनाथफाग-प्रशस्ति व्युत्सृष्टापरसंघसंततिबृहच्छीकाष्टसंघान्वये संपा[सारुणरत्ननामकविना लाभाय बोधे पुनः । दृष्टोऽयं रविवंशपुण्यचरितः श्रीपार्वतः सर्वतो व्याताशामुखमंडलः स्थिरतरः स्थेयापृथिव्यां चिरं ॥२६॥ रस-वृष-यति-चंद्रे ख्यातसंवत्सरे(१७१६)ऽस्मिन् नियमितसितवारे वैजयंती-दशम्या । अजितजिनचरित्रं बोधपात्रं बुधाना रचितममलवाग्मि-रक्तरत्नेन तेन ॥४०॥ मुद्गले भूभुजा श्रेष्ठे राज्येऽवरंगसाहिके। जहानावाद-नगरे पार्श्वनाथजिनालये ॥४१॥
[सरसावा मन्दिर-प्रति ७३. आदिनाथ-फाग ( भ० ज्ञानभूषण) आदिभाग:
यो वृन्दारक-वृन्द-वन्दित-पदो जातो युगादौ जयी हत्वा दुर्जय मोहनीयमखिलं शेषश्च घातित्रयम् । लब्ध्वा केवल-बोधन जगदिदं संबोध्य मुक्ति गत
स्तत्कल्याणक-पञ्चकं सुरकृतं व्यावर्णयामि स्फुटं ॥१॥ अन्तभाग:
सर्वानेव नवोनषट्शतमितान्(५६१)श्लोकान्विबुध्याऽत्र वै शुद्ध ये मुधियः पठन्ति सततं ते पाठयन्त्वादरात् । ये केचिन्निपुणा लिग्वन्ति लिखने ते शुद्धवर्णैः स्वयमन्यार्थ किल लेखयन्तु च पुरोः कल्याण-व्यावर्णनम् ॥ . विख्यातो भुवनादिकीर्तिमुनिपः श्रीमूलसंघेऽभवत् तत्पट्टेऽजनि बोधभूषणमुनिः स्वात्मस्वरूपे रतः। जाता प्रीतिरतीव तस्य महता कल्याणकेषु प्रभोस्तेनेदं विहितं ततो जिनपतेराद्यस्य तद्वर्णनम् ।।