________________
अजितपुराण-प्रशस्ति ७२. अजितपुराण (पं० अरुणमणि ) मादिभाग :
सर्वज्ञाय नमो नित्यं निरावरण-चक्षुषे। यद्बोधविशदादरों भुषनं भु(भ१)वनायते ।।१।।
x सुभद्रं च यशोभद्रं लोहाचार्य महामुनि । जिनसेनं जितानंग सर्वसंयतसेवितं ॥३०॥ पुराणं गदितं येन त्रिषष्टिपुरुषाश्रितं । वंदेऽह गुणभदं च महागुणगणेवृतम् ॥३१॥ सूरिः श्रीश्रतकीाख्यः सर्वशास्त्रार्थकोविदः । तनोतु भवता भावं भवभ्रमणनाशनम् ॥३२॥ नेषा वाणीं नमाम्युच्चैः त्रैलोक्यार्थप्रदीपिकां ।
त्रिजगन्मंगलकरी मुनीन्द्रः सेविता सदा ॥३३॥ अन्तभाग :
श्रीमच्छीकाष्ठसघे मुनिगणनातीतदिग्वस्त्रयु(जु)ष्टे तस्मिंश्रीमाथुराख्ये वृषभ-वृषयुते गच्छश्रेष्ठाधिपूज्ये । तन्मध्ये सर्वश्रेष्ठे परमपदप्रदे पुष्कराख्ये गणे च लोहाचार्यान्वये च विगतकलुषितसयतानेकजाताः ॥१९॥ काष्टसंघगणनायकवीरं धर्मसाधनविधानपटीरें। राजते सकलसंघसमेतं धर्मसेनगुरुरेष विदेतं ॥१२॥ धर्मोद्धारविधिप्रवीणमतिकः सिद्धातपारगमी शीलादिवतधारकः शम-दम-क्षाति-प्रभा-भासुराः। वेभारादिकतीर्थराजरचितः प्राज्यप्रतिष्ठोदयः तत्पद्यान्जविकाशनैकतरणिः श्रीभावसेनो गुरुः ॥१३||