________________
૪
जैन ग्रन्थ- प्रशस्तिसंग्रह
अन्तभाग:--
पूर्व हर पतिना लब्ध- पद्मावती-वरः । पेरोसाहिनरेन्द्रास - सत्पंडितपदोऽप्यभूत् ||२६|| पद्माऽभिधः पद्मविशालनेत्रः तदीयषंशांवरभानुरासीत् । येन प्रदत्तं बहुधा जनेभ्यो दान सदानेकगुणालयेन ||३०|| ग्यास साहिनरेन्द्राच्च येनासा बहुमान्यता । साकुंभरीपुरे रम्यं कारितं जिनमन्दिरं ||३१|| प्राशा यस्य न लोपिता चितितले कैश्विन्नरेन्द्रैरपि दुष्टव्याधिगजेन्द्र पंचवदनो मिथ्यात्वविध्वंसकः । नित्यं यः कृतवान् जिनेश्वरमहा कल्याणकाना विधि सत्पाण्डित्यपदस्थितश्चतुरताहसीसरो भासुरः ||३२|| तत्पुत्रो बिझनामाभूत् प्रसिद्धो भुवि वैद्यराट् । नसीरसा हिभूपाल लब्धोत्कर्षो विशालधीः ॥ ३३॥ माननीय नरेन्द्रारणा भूपतिर्वणिजामिव । दान - प्रजाद्वितीयश्च सर्वविद्याविदावरः ||३४|| अयं चिरं स्थिरीभूय गृहे वैभवसयुते । पश्चाद्धि व्रतिको नूनं समभूत्कर्महानये ||३५|| द्वितीयपुत्रेोपि सुहृज्जनाख्यो विवेकवान्वादिगजेन्द्रसिंहः । श्रीमत्सदा सर्वजनोपकारी खानिः सुखाना जिनधर्मचारी ||३६|| भट्टारक- श्रीजिनचन्द्र पट्टे भट्टारकोऽयं समभूद्गुणादयः । प्रभेन्दुसशी हि महाप्रभावः त्यक्त्वा विभूति नृपराजसाम्या ||३७|| बिझाभिधस्य तनयो धर्मदासादयोप्यभूत् । अभिमानहिरण्याद्रिर्वा दिनक्षत्र भास्करः ||३८||
विवेकिनो वै महमूदमा हि नृपेण दत्ता बहुमानता हि । प्रस्यापि सद्वैद्यशिरोमणेश्च पद्मावतीदत्तवरस्य नित्यं ||३६||