________________
होलीरेणुकाचरित्र-प्रशस्ति अयं विख्यातकीर्तिश्च रूपनिर्जितमन्मथः । सर्वलोकोपकारी च दयालुर्बुद्धिसागरः ॥४०॥ यत्समो दृश्यते नैव कोप्यन्यः पृथिवीतले ।
महाभाग्यश्च सद्वैद्यो बहुना भाषितेन कि ॥४१॥ धर्मश्रीरिनिनामतोऽस्य वनिता देवादि-पूजा-रता।। सौभाग्यादि-गुणान्विताऽतिविमला विख्यातकीतिः खलु ।
आसीत्सर्वहिता सुवाक्यकथका दानाऽद्वितीया परा सम्यग्दृष्टियुता प्रफुल्लवदना दीनोपकारान्विता ॥४२॥
विवेकसत्क्षेत्रस्य परा सीमेव याऽभवत् ।।
रोरुसंतापिताना च शरदश्चन्द्रिकेव हि ॥४३॥ रेग्यानामास्ति पुत्रो वरगुणनिलयो ह्य तयोः सत्प्रतापो वैद्याधीशः प्रसिद्धो विविधजननुतो धैर्यमेरुः सदैव । भोगाढयो बुद्धिमिधुः शशधरवदनः स्वर्णकातिः सभाहः सद्विद्यालंकृतागो विविधसुनिधिः भाग्यवाश्चोपकारी ॥४४॥
सन्मानितो रणस्तभे दुर्गेऽयं बहुसंपदः । शेरसाहिनरेन्द्रेण गाभीर्यगुणसागरः ॥४५।। माननीयो नरेद्राणा बहूना वणिजा तथा । साहसी चास्त्यसौ नूनमहंकारसुरालयः ॥४६॥ यस्य हत न मर्यादा क्षमः कोऽपि न दृश्यते । नरः प्रियतमस्याऽपि सर्वेषा च विवेकिना ||४७|| सोन्दर्य-जितकन्दप्पः सुहृदजदिवाकरः । योऽस्ति दुर्जननक्षत्रहमो विमलमानसः ॥४८॥ वाछितार्थप्रदो योऽस्ति सेवकाना हितार्थिना। कलाचयप्रवीणश्च मन्मनुष्यशिरोमणिः ||४६।। भार्याऽस्य सद्गुणोपेता नाम्ना रिषसिरि स्मृता। गृहे दक्षा च दीनाना कल्पवल्लीव निर्मला ।।५०॥