________________
जैनग्रन्थ-प्रशस्तिम्ग्रह पत्तने पाटलीपुत्रे मगधांतःप्रतिनी । स्वर्धनीतटगे पार्श्व सुदर्शनालयमाश्रिते ॥१२॥ सलमसाहिसद्राज्ये सर्वग्लेच्छाधिपाधिपे । रक्षत्यत्र धराचक्र निजिताखिलविद्विपि ॥१३॥ श्रीमत्प्रभाचन्द्रगणीन्द्रपट्टे भट्टारकश्रीमुनिचन्द्र कीर्तेः । पट्टाबरोद्भासनभानमाली भट्टारकोऽभूहिविजेन्द्रकीर्तिः ।।१४।। तच्छिष्यदाम्रायको हि सुभगौ खण्डेलवालान्वयौ । श्रीतेजपाल-हेमनामपरमौ धनराज-रेखांगजौ । संप्रीत्यौ गुरुभक्तिभाजनपरौ सद्दर्शनालंकृतौ । चक्राते सुभौमचक्रिचरिते साहाय्यसाक्षेपता ॥१५।।
सौमण्यगोत्रे तेजाख्यो बुधादिपटसंयुतः । पट्टणिगोत्रजो हेमपट्टणे च तदन्वये । सम्मेदाचलयात्रायै रत्नचन्द्रास्समागताः। जगन्महन्नात्मजाचार्यजयकीर्तिभिरन्वतः ॥१६।। श्रीमत्कमलकाद्वैः सूरिभिश्च सुवर्णिभिः। कल्याण-कचराख्यान-कान्हजी-भोगिदासकैः॥१७॥ श्रीमद्हुम्बडजातीय-महीअक्षवणिक्पतिः । चम्पाकुक्षिसमुत्पन्नो रत्नचन्द्रो व्यरीरचन।।१८(त्रिभिः कुलक) श्रीमत्खडेलवालेषु श्यप्रयालेषु दानिषु । जैसवालेषु मद्भक्तिकुबत्सु श्रावकेषु च ॥१६॥ धनराड्-केसि-पुत्रस्य तेजपालविपश्चितः ।। साहाय्याखिलसामग्रीसापेक्ष्य स्वेप्सितप्रट ॥२०॥ श्रीमत्खडेलवालाय्यों हीराख्यभ्रातृजान्वितः । हमीर देपतिहेमराजः कारितवानिदं चरितं ॥२१॥(युग्म) श्रादयवाम्बरदेशस्थ सागपत्तन-वासिनः । हेमाख्य-श्रेष्टिनः पुत्रो जयसान्मङ्गलाभिधः ॥२२॥