________________
सुभौमचक्रचरित्र - प्रशस्ति
अतीर्थकृतस्तीर्थे वर्तमानेऽजनिष्ट तत् । सत्मपारशुरामीयं सौभौमं चरितं वरम् ||१२||
अन्तभाग :
श्रथासीन्मूलसंघेस्मिन् गच्छेसारस्वताभिधे । मुनिश्री कुन्दकुन्दाख्यः श्री सीमंधरतीर्थगः ||१|| तस्यान्वये विदा मान्यः पद्मनन्दी यतीश्वरः । भव्यागि पद्मनंदीव समभूत्तपसा निधिः ||२|| भट्टारकवरेण्योऽस्य पट्टे सकलकीर्तिवाक् (भाक् १) । धर्मः प्रकाशितो येन सजीयाज्जगदीश्वरः ॥ ३॥ गुरुर्भवनकी यस्तत्पडोदय भानुमान् । जातवान् जनितानन्दो वनवासी महातपः ||४|| गुरुभ्राता तदीयोऽभूद्ररत्न कीर्तिर्गणाऽग्रणीः । स्थविरो मंडलाचार्य्यपदभाग्धर्मकार्यकृत् ||५|| तत्पट्टे मंडलाचार्यो यशः कीर्तिर्य शोनिधिरजायताऽऽगमाभ्यात्मपुराणार्थविचक्षणः ||६|| वादित्वस्य परं सीमा गमकस्य परं पद । कवित्वादेः पर धाम गुणचन्द्रस्तदन्वये ||७|| जिनचन्द्रो जयत्व बलात्कार गणाग्रणी
पट्टे सर्वथैकान्तनिर्जिताशेपवाक्सूरिः (वादिनः १) ॥८॥ तत्पट्टे सकल चन्द्रोऽभूत्तदीये विपुलोदये । सैद्धान्तिकः सता वंद्यः सूवियों विदाम्बरः ॥६ तस्य पट्टे वरीवति भट्टारकपद स्थितः । रत्नचन्द्रो विदामान्यः स्याद्वादसकलार्थवित् ॥१०॥ सम्वत्पोडशाख्याते व्यशीतिवत्सराकिते (१६८३) | मासे भाद्रपदे श्वेतपंचम्या गुरुवारके ॥११॥
६१