________________
जयपुराण- प्रशस्ति
नामवंशभव-पडितजीवराज- मेघाबलात्सकल मौख्य करकृतोयं । जैनालयः स्थपति-बुद्धि भरादपूर्वो ग्रंथानु वा जयभृतो जिनदर्शनोव्यं (१) ॥६२ भट्टारकस्य गुरुबन्धुरभूत्प्रसिद्धी मेधावतः सुमतिकीर्तिमुनेर्गुणाः । श्राचार्य मुख्य सकला दिम भूषणाख्यस्तच्छिष्य सूरिरभवत्स नरेन्द्रकीर्तिः॥६३ पूर्णस्य वक्तृकवितादिगुणैरभैः शिष्यो बभूव नृपमान्य नरेन्द्र कीर्तेः । वर्णीस्मराभवपुः सहिला द्रकाख्यः शिष्योस्ति तस्य जयसेवक कामराजः॥६४ मात्रा-सधि-विभक्ति लिङ्ग-वचनालकार - रीत्यादिभिः प्रोक्तं यद्रहितं सरस्वति मया प्रथेत्र सूरीश्वरैः । निर्वाचिदभावतः क्षम माय त्व तद्धिते बालके मातेव स्फुटवाते शिवकरा तारुण्यकालात ( ? ) ||६५॥ दुःसध्यादिमल विनाश्य गुणिनः सवीक्ष्य यूय बुधा हर्षतः कविचिल्लवं कुरुत भो ग्रथद्रह स्वात्मनि । शुद्धं सज्जनतागुणाद्दमिवाकृतादिनैर्मल्यद
गभीरं पृथुल त्रिवर्गसलिल पंक शरद्वारा: ( ? ) ||६ ६ || भूयात्पुराणरचनाभवपुण्यतो मे सम्यक्पदेन सहितो भवमोख्यवर्गात् । अन्योत्थकर्मजनकाद्विमुखस्य दृक्चिच्चारित्ररत्ननिचयो न हितस्वतोन्यः॥ ६७ ॥ अमृतवार्द्धखभूमिसुदर्शना विजयनामनगाचलमंदिर (?) । चपलरूकसमूहैः सहिता दुमे (?) जयतु यावदिदं भुवनत्रये ||६८ || शिल्पिरुत्पादयत्येव जिनबिम्ब तथा कविः ।
४१
शास्त्रं तन्मान्यतामेति मान्यं तन्मानितं जनैः ॥६६॥ राष्ट्रस्यैतत्पुराण शकमनुजपतदपाटस्य पुर्या पश्चात्सवत्सरस्य प्ररचितमटतः पंचपंचाशतो हि । अभ्राभ्राक्षैक संवच्छ र निकरयुजः (१५५५) फाल्गुणे मासि पूर्णे मुख्यायामौदयाया सुकविविनयिनो लालजिष्णोश्च वाक्यात् ॥ १००॥ सकलकीर्तिकृतं पुरुदेवजं समवलोक्य पुराणमियं कृतिः । जयमुनेर्गुणपाल सुतस्य च बृहदलं जिनसेनकृतं कृता ॥ १०१ ॥