________________
जैन ग्रन्थ- प्रशस्तिसंग्रह
भूद्गणो बलात्कारः पद्मनन्द्यादिपंचसु । नामास्मिन् च मुनिग्रावशारदाबलवाचकात् ॥ 5011 प्राचार्यात्कुन्दकुन्दाख्यात्तस्मादनुक्रमादभूत् । स सकलकीर्तियोगीशो ज्ञानी भट्टारकेश्वरः ||१|| येनो[]धृतो गतो धर्मो गुर्जरे वाग्वरादिके । निर्मथेन कवित्वादिगुणेनेवार्हता पुरा ॥ ८२ ॥ तस्माद्भुवनकीर्तिः श्रीज्ञान भूषणयोगिराट् । विजयकीर्तयोऽभूवन् भट्टारकपदेशिनः ॥८३॥ तेभ्यः श्रीशुभचन्द्रः श्रीसुमति कीर्तिमंयमी । गुणकीर्त्याह्वया श्रासन् बलात्कारगणेश्वराः ॥८४॥ ततः श्रीगुणकीर्तेर्यः पट्ट-व्योमदिवाकरः । वादिना भूषणो भट्टारकोऽभूद्वादिभूषणः ॥८५॥ तत्पट्टाधीश्वरो विश्वव्यापिनिश्वेतकीतिधृत् । राम कीर्तिरभूदन्य[द]रामो वा सुखदैर्गुणैः ॥ ८६ ॥ तस्मात्स्वगच्छपतिरस्ति स पद्मनन्दी निष्णातकोक सुखकारकपद्मनंदी । भट्टारको जिनमताम्बर- पद्मनंदी श्रीरामकीर्तिपदभूधर - पद्मनंदी ॥८७॥ यः शब्दतर्कपरमागमविद्विरागी रागी शिवे विहित सर्वतपःसमूहः । भात्यत्र वस्त्रपरिवर्जन-जातरूपः काले कलौ परिहृता खिलवस्तुलोभः ||८|| वस्त्रारणा त्यजनक्षणेऽस्य यतिनो वंशादिवालस्य विद्धृत्वाग्रे समरादिसिंहनृपतिः खङ्गां पुरस्येति सः । प्राऽसि प्रवितीर्य मा मुनिवर त्व चाम्बराणि प्रभो
४०
राजन्यं कुरु संप्रगृह्य स तदा स्वाङ्गीकृतान्नाचलत् ॥८६॥ गिरिपुराधिपति पपुंगवस्तमभिवीक्ष्यमुदोल्लसते प्रभुः । गिरिधरादिमदाससमाह्वयः जलधिरम्बुचयेन विधुं यथा ॥६०॥
तदुपदेशवशेन तदीयसत्प्रवर पुण्य भराकृतसाहसं । जयपुराणमिदं तनुबुद्धिना रचितमंगजनाथ सुवर्णिना ॥६९॥