________________
३६
जैनग्रन्थ-प्रशस्तिसंग्रह तच्छिष्यस्तत्पदस्थो व्रतनिचययुतो जैनपादाब्जभृगो नाम्ना धर्मादिकीर्तिर्मुनिविमलमनास्तेन चैतत्पुराणं । स्वल्पप्रज्ञेन दृब्धं निजदुरितचय-प्रक्षयाय हिताय भव्याना च परेषा श्रवण-मुपठने प्रोद्यतानामजलं ॥३३॥ मूलकर्ता पुराणस्य श्रीजिनश्चोत्तरस्तथा । गणीशो यतयोन्ये च उत्तरोत्तरकर्तृ काः ॥३४॥ इदं श्रीरविषेणस्य पुराण वीक्ष्य निर्मितः । चिरं स्थयात् क्षितौ भव्यैः श्रुतं चाधीतमन्वह ॥३५॥ संवत्सरे द्वयष्टशते मनोज्ञे चैकोनसप्तत्यधिके(१६६६) सुमासे । श्रीश्रावणे सूर्यदिने तृतीयातिथौ च देशेषु हि मालवेषु ॥३६॥
इति श्रीपद्मपुराणे भट्टारकश्रीधर्मकीर्तिविरचिते पद्मदेवनिर्वाणगमनं नाम चतुश्चत्वारिशः पर्वः ॥४४॥
२६. हरिवंशपुराण (भ० धर्मकीर्ति) आदिभाग:
श्रीमंतं त्रिजगन्नाथ नेमिनाथं जिनाधिपम् । अरिष्टग्वडने नेमि वन्देऽनन्तगुणार्णवम् ।।१।। पुरुदेवादि-वीरान्तान शेषास्तीर्थकरान्मुदा । वन्देऽनन्तगुणालीदान्प्रातिहार्यादिभूपितान् ॥२॥ मप्तत्यग्रशतक्षेत्र्यान्सता भृतान्भविष्यतः। नमामि श्रीजिनान घातिकर्मसंघातघातकान् ॥३॥ सिद्धानष्टगुणोपेतान्पचाचारादिसंगतान् ।
आचार्यान्पाठकान्वंदे तथासाधूस्तपोधनान् ॥४॥ जिनेन्द्र-वक्त्र-संजाता सुरासुरमुनीडिताम् । भारती नौमि दुर्जाडय-नाशिनीं विश्वदीपिकाम् ॥५॥