________________
हरिवंशपुराण-प्रशस्ति वन्दे वृषभसेनादीन् गौतमान्तान् गणेशिनः । चतुर्ज्ञानधरान्सम्यक् पूर्वाङ्ग-रचनोद्यतान् ॥६॥ कुन्दकुन्दादिकाचार्यान् कवीन्द्रान्नौमि भक्तितः । प्रदीपायितमेतत्र (2) मिथ्यात्वतमोवृत ॥७॥ तथा ललितकी.ख्यमीडे भट्टारकं गुरुम् ।
क्रियते यत्प्रसादेन कृतिरेपा बुधोचिता ।।८।। अन्तभाग:
वीरेणोक्त पुरा चैतद्गौतमायैस्ततोऽखिलम् । श्रतकेवलिभिस्तद्वत्ततः श्रीगुणभद्रकैः ॥१०॥ सक्षेपेण च तीक्ष्य प्रोक्तं तच्च मया पुनः ।
उक्तमेतच्चिरं नद्यात्पठितं पाठित बुधैः ॥६॥ नानाकथातत्त्वरहस्यपूर्ण पूजाव्रतत्याग-तपोगुणाट्यम् । स्वर्गापवर्गोरुनिदानभूत पुराणमेतत्सुचिर प्रजीयात् ||२|| श्रीमूलसंघेऽजनि कुन्दकुन्दः सृरिमहात्माखिलतत्ववेदी। सीमधरस्वामिपदप्रवन्दी पञ्चायो जेन-मत-प्रदीपः ॥६३|| तदन्वयेऽभूद्यशकीर्तिनामा भट्टारको भाषितजैनमार्गः। तत्पट्टवान् श्रीललितादिकीर्तिभट्टारकोऽजायत सक्रियावान् ||१४||
जयति ललितकीर्तितितत्त्वार्थसार्थो नय-विनय-विवेक-प्रोज्वलो भव्यबन्धुः। अनपदशतमुख्ये मालवेऽल यदाज्ञा समभवदिह जैन-द्योतिका दीपिकेव ||५|| तत्पट्टाम्बुजहर्ष-वर्ष-तरणिर्भट्टारको भासुरो जैनग्रन्थविचार-केलिनिपुणः श्रीधर्मकीर्त्याहयः । तेनेद रचितं पुराणममलं गुर्वाज्ञया किञ्चन संक्षेपेण विबुद्धिनापि सुहृदा तत्शोध्यमेतद् ध्रुवम् ||६||