________________
महापुराणटीका-प्रशस्ति
२३ संतोनाम्नां पल्या जिनराजध्यानकृत्सहरिसजः। पुत्रं मनःसुखाख्यं धर्मादुत्पादयामास ॥१६॥ सति प्रभुत्वे पि मदो न यस्य रतिः परस्त्रीषु न यौवनेऽपि । परोपकारकनिधिः स साधुर्धर्मात्सुखः कस्य न माननीयः ॥१६॥ जैनद्राह्रिसरोजभक्तिरचला बुद्धिविवेकाचिता 'लक्ष्मीर्दीनसमर्पिता सकरुणं चेतः सुधायुग्वचः । रूपं शीलयुत परोपकरणव्यापारनिष्ठं वपुः शास्त्रं चापि मनःसुखे गतमदं काले कलौ दृश्यते ॥२०॥
संघभारधरो धीरः साधुर्वासाधरः सुधीः । सिद्धये श्रावकाचारमचीकरदमु मुदा ॥२१॥ यावत्सागरमेखला वसुमती यावत्सुवर्णाचलः स्व र्णररी कुलसंकुगमित(१) ..........। चिन्तास्क(१). ........... लोकप्रकाशोद्यतो तावन्नंदतु पुत्र-पौत्रसहितो वासाधरः श्रावकः ॥२२॥
आमेर प्रति १५. महापुराण-टीका (भ० ललितकीर्ति) आदिभागः
नत्या श्रीमज्जिनेशानं लोकालोकप्रकाशकम् ।
टीका महापुराणस्य कुर्वे स्वाभीष्टसिद्धये ॥१॥ अथ श्रीमज्जिनसेनाचार्यः श्रीमद्गुणभद्राचार्यवर्यसंसेवितपादपंकेरुहयुग्मो रत्नत्रयमंडितमूर्तिनिःशेषविघ्नसमाप्त्यर्थं भगवन्नमस्क्रियारूपं मंगलमाचष्टे । ......... अन्तभागः. . वर्षे सागरनागभोगिकुमिते (१८७४) मार्गे च मासेऽसिते
पक्षे पक्षति-सत्तिथौ रविदिने टीका कृतेयं बरा।