________________
जैनग्रन्थ- प्रशस्तिसंग्रह
विशुद्धयोः स्वभावेन ज्ञानलक्ष्मी जितेन्द्रियोः । नया इवाऽभवन् सप्तगंभीरास्तनयास्तयो. ॥८॥ वासाधर- हरिराजौ प्रह्लादः शुद्धधीव महराजः । भवराज रत्नाख्यः सतनाख्यश्चेत्यमी सन्त || वासाधरस्याद्भुतभाग्यराशेमिंत्रात्तयोर्वेश्मनि कल्पवृक्षः ।
पुण्योदयतोऽवतीर्णो वितीर्णचेतोऽभिमंतार्थसार्थः ॥१०॥ वासाधरेण सुधिया गांभीर्याद्यदि ऋणीकृतो नाब्धिः । कथमन्यथा स वडवाज्वलनज्वलन सूत्रस्थितोद्वलति ||११|| साद्रानन्दस्वरूपाद्भुतमहिमपरब्रह्मविद्याविनोदम
1
A
तं जैनेन्द्रपादाच्च विमलविधौ पात्रदानाच्च पाणि । वाणी सन्मंत्रजापी प्रवचनवचना कर्णनात्कर्णयुग्मं
लोकालोकावलोकान्न विरमति यशः साधुवासाधरस्य ||१२|| शीताशूराजहंसत्य मितकुवलयत्युल्लसत्तारकालिस्तिग्माशुः स्मेररक्तोत्थस्थलति जगदिदं चातरीयत्यशेष । जंबालत्यंतरिक्षं कनकगिरिरयं चक्रवाकत्युदग्रः साधोवासाधरौदार्यगुणनिलय यशो वारिपूरो त्वदीयः ॥१३॥ द्वितीयाप्यद्वितीय भूद्ध यदार्यादिभिर्गुणैः ।
1
पुत्रः सोमदेवस्य हरिराजाऽभिधः सुधीः ||१४|| गुणैः सदात्मप्रतिपक्षभूतैः संग करोत्येष विवेकचक्षुः । इतीव सेष्यैर्ह रिराजसाधुर्दोषैरवालोकितशीलसिंधुः ॥ १५॥ संप्राप्य रत्नत्रयैकपात्रं रत्नं सुतं मंडनमुर्व्वरायाः । श्रीसोमदेवः स्वकुटुम्बभार निर्वाह - चिंता-रहितो बभूव ||१६|| हृष्टं शिष्टजनैः सपत्नकमलैः कुत्रापि लीनं जवादर्थिप्रोद्धत नीलकंठनिव हैश्छत्रं प्रमोदो हु मान् (१) । तृष्णाधूलिकणोत्करै र्विगलितं स्थाने मुनीन्द्रैः स्थितिं । वृष्टिं दानमर्थविन्वति (?) परा रत्नांकरोम्भोधरो ||१७|