________________
जैनग्रन्थ-प्रशस्तिसंग्रह काष्ठासंघवरे च माथुरवरे गच्छे गणे पुष्करे देवः श्रीजगदादिकीर्तिरभवत्ख्यातो जितात्मा महान् ॥१॥ तच्छिष्येण च मंदतान्वितधिया भट्टारकत्वं यता शुभदै ललितादिकोय॑भिषया ख्यातेन लोके ध्रुवम् । राजच्छोजिनसेनभाषितमहाकाव्यस्य भक्त्या मया संशोध्यैव सुपठयता बुधजनैः क्षाति विधायादरात् ।।२।।
१६. पंचनमस्कार-दीपक (भ• सिहनन्दि) प्रादिभाग:
नमाम्यहन्तं देवेश लक्ष्मीरात्यंतिकी स्वयं ।
यस्य निर्दूत-कर्मेन्ध-धूमस्यापि विराजते ।।१।। अन्तभाग:
श्रीमूलसंघे वरपुष्कराख्ये गच्छे सुजातः शुभचन्द्रसूरिः। तस्यास्त्र पट्टेऽजनि सिंहनन्दिर्भट्टारकोऽभूद्विदुषा वरेण्यः ॥५॥
तेनेदं रचितं ग्रंथं नाम्ना पचनमस्कृतिदीपकं विस्तरभिया संक्षिप्तं चाल्पमेधसा ।।५४।। अब्देस्तत्त्वरसर्तुचद्रकलिते (१६६७) श्रीविक्रमादित्यजे मासे कार्तिकनामनीह धवले पक्षे शरत्संभवे । वारे भास्वति सिद्धनामनि तथा योगेषु पूर्णातिथौ नक्षत्रेऽश्विनिनाम्नि तत्त्वरसिकः पूर्णीकृतो ग्रंथकः ॥५५॥ श्लोकं सहस्रगणितं वक्तुः श्रोतुः सुखप्रदं ।
अन्यस्य पंचनस्याख्यदीपकस्याऽस्य तिष्ठतां ॥५६॥ इति बहुतरमपि फलविषयं पंचनमस्कारग्रन्ये संक्षिप्य पूर्णीकृतं ।