________________
जैन दर्शन के मौलिक तत्व
अर्थसिव्यं तत्प्रवृत्तिः॥ वि०१३ असतः प्रादुर्भाव इष्टावातिविशतिश्चेति त्रिविधाऽयंसिदिः। तत्र न्यायस्य प्रवृत्तेः साक्षानिमित्तं भावतिरेव ।
सा च लक्षणप्रमाणाभ्याम् ।। वि० २४
___ व्यवच्छेदकधों लक्षणम् ॥ वि० ११५ वस्तुनो व्यवस्थापनहेतुभूतो धर्मो लक्ष्यं व्यवच्छिनत्ति-सांकीय॑मपनयतीति लक्षणमुच्यते। यथा-जीवस्य चैतन्यम् , अमेरोष्ण्यम् , गोः सास्नावत्त्वम् । क्वचित् कादाचित्कपि, यथा-दण्डी पुरुषः ।
अव्याप्तातिव्याप्तासंभविनस्तदाभासाः ।। वि० श६ अतत् तदिव आभासते इति तदाभासः।
लक्ष्म्यैकदेशवृत्तिरव्याप्तः ।। वि० ११७ यथा-पशोर्विपाणित्वम् , आत्मनः शरीरवत्त्वम् ।
लक्ष्यालक्ष्यवृत्तिरतिव्याप्तः । वि० ११८ यथा-वायोगतिमत्त्वम् , साधोः सम्यक्त्ववत्त्वम् ।
लक्ष्यमात्रावृत्तिरसंभवी ।। वि० ११६ यथा-मुक्तानां पुनरावृत्तित्वम् , पुद्गलस्य चेतनत्वम् ।
यथार्थज्ञानं प्रमाणम् ॥ वि० १२१० प्रकर्षेण (संशयायभावेन ) मीयतेऽर्थो येन तत् प्रमाणम् । ज्ञानम्-अर्थप्रकाशकम् । तद् अयथार्थमपि भवतीति तद्व्यवच्छित्तये यथार्थमिति विशेषणम् । प्रमेयं नान्यथा गृहातीति यथार्थत्वमस्य ।।
अयथार्थश्च विपर्ययसंशयानध्यवसायाः ।। वि० १११
अतत्त्वे तत्ताध्यवसायो विपर्ययः ।। वि० ११२ यथा-वाष्पयानारूढस्य अगच्छत्स्वपि वृत्तेषु गच्छत्प्रत्ययः, पदार्थों नित्य एव वा अनित्य एव वा।
अनिर्णायी विकल्पः संशयः' ।। वि० १२१३ यथा-गौरयं गवयो वा। निर्णायी विकल्पस्तु प्रमाणमेव, यथा--पदार्थों नित्यश्च अनित्यश्च । १-दान्धकारप्रमादाद्ययथार्थत्वहेतुसामान्येऽपि विपर्यये एकाशस्य अध्य
बसायः, इंशषे तु अनेकांशानामनिर्णय इत्यनयोपियवाद मेदः। ...
-
-
-
-
-
-