________________
जैन दर्शन के मौलिक तत्व अवधिकेवलयोश्च भवधिकेवलदर्शने। मनापर्यायस्य मनापर्यायविषयत्वेन सामान्यबोधामावान्न दर्शनम्।
प्रतिनियतार्थग्रहणमिन्द्रियम् ।। प्र० २।२४। प्रतिनियता:शब्दादिविषया गृपन्ते येन तत् प्रतिनियतार्थग्रहणम् इन्द्रिय भवति ।
स्पर्शनरसनप्राणचक्षुःोत्राणि ।। प्र० २।२५॥
प्रत्येकं चतुर्धा | वि० २०१८॥ तत्र निवृत्युपकरणे पौद्गलिके। वि० २।१६ श्राकाररचना निवृत्तिः । तत्र विषयग्रहणोपकारिणी शक्तिः उपकरणम् । एते द्वे अपि पुद्गलरूपत्वात् पौद्गलिके।
आत्मिके लब्ध्युपयोगौ ॥ वि० ॥२०॥ कर्मविलयविशेषोदन आत्मप्रकाशः-लब्धिः। तस्यार्थग्रहणव्यापार:उपयोगः। सत्यां लन्धौ निवृत्युपकरणोपयोगाः। सत्यां च निवृत्ती उपकरणोपयोगौ। सत्युपकरणे उपयोगः ।
सर्वार्थग्रहणं त्रैकालिकं मनः ।।वि० २।२१॥ सर्वे, नित्विन्द्रियवत् प्रतिनियता अर्था गृह्यन्ते ऽनेन तत्सर्वार्थग्रहणम्, त्रिकालगोचरम्-मनः' । मननालम्बनभूता पुद्गलाः-पौद्गलिकं मनः आत्मिकं मनः लब्ध्युपयोगरूपम् ।
दूसरा विभाग प्रमाण-मीमांसा
युक्त्यार्थपरीक्षणं न्यायः॥ वि० २१ साध्यसाधनयोरविरोधो युक्तिः, अर्थपरीक्षणोपायो वा। नीयते प्राप्यतेऽर्थसिद्धिर्येन स न्यायः।
प्रमाणं, प्रमेयं, प्रमितिः, प्रमाता चेति चतुरकः॥ वि०२२ प्रमाणम्-साधनम् , प्रमेयम्-वस्तु, प्रमितिः-फलम् , प्रमातापरीक्षकः। -त्रिकालगोचरस्थात् मालोचनात्मकत्वमस्थ स्वभाषापक्तिम् ।